SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पद्मखण्डपतद्वालारुणरोचिर्विडम्बिना । अमण्डयंस्तयोः पादानलक्तकरसेन ताः॥८०७॥ अङ्गनारत्नयोरङ्गमङ्गरागेण चारुणा । काञ्चनं गैरिकेणेव, विलिम्पन्ति स्म तास्तयोः ॥ ८०८ ॥ ग्रीवाभुजाग्रवक्षोजगण्डदेशेषु तास्तयोः । प्रशस्तीरिव कामस्स, लिलिखुः पत्रवल्लरीः॥८०९॥ अलिके तिलकं चारु, चक्रुस्ताश्चान्दनं तयोः। रतिदेव्यवताराय, प्रत्यग्रमिव मण्डलम् ॥ ८१० ॥ तयोः प्रसाधयामासुर्नयनान्यञ्जनेन ताः । नीलोत्पलवनापातिभृङ्गसब्रह्मचारिणा ॥ ८११॥ तयोर्बबन्धुधम्मिल्लमुन्मीलन्माल्यदाम ताः । पुष्पायुधेनेव कृतमायुधागारमात्मनः ॥ ८१२॥ पारिणेत्राणि वस्त्राणि, ताभ्यां ताः पर्यधापयन् । लम्बमानदशाश्रेणिन्यकृतेन्दुकराण्यथ ॥ ८१३ ॥ तयोरधिशिरो न्यासन् , विचित्रमणिभासुरौ । ताः किरीटौ पुष्पदन्तौ, पूर्वापरदिशोरिव ॥ ८१४ ॥ तत्कर्णयोर्मणिमयावतंसौ ता न्यवीविशन् । रत्नाकुरितमेरूव/गर्वसर्वखतस्करौ ॥ ८१५ ॥ ताः समारोपयामासुर्दिव्ये मौक्तिककुण्डले । तत्कर्णलतयोर्नव्यपुष्पगुच्छविडम्बिनी ।। ८१६ ॥ निष्कं ताश्चित्रमाणिक्यदीप्तिदन्तुरिताम्बरम् । सजिनेन्द्रधनुर्लक्ष्मीहरं कण्ठे न्यधुस्तयोः ॥८१७॥ हारमारोपयामासुरधिस्तनतटं तयोः । आतन्वानं स्थलारोहदवरोहनदीभ्रमम् ॥ ८१८॥ भुजयोर्योजयामासुः, केयूरे रत्नमण्डिते । पुष्पबाणधनुर्बद्धवीरपट्टोपमे तयोः ॥ ८१९ ॥ आमुक्तौ च तयोर्मुक्ताकङ्कणी पाणिमूलयोः । आवालाविव पानीयशालिनौ लतयोस्तले ॥ ८२०॥ अक्कणत्किङ्किणीश्रेणिं, श्रोणी व्यश्राणयंस्तयोः । मणिकाञ्ची रतेर्देव्या, इव मङ्गलपाठिकाम् ॥ ८२१॥ १ ललाटे। २ नवीनम्। ३ चन्द्रसूर्यो। ४ कण्ठाभरणम् । Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy