SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम् । किंचिन्तयसि मारीचि!?,सुमुख्यसि किमुन्मुखी किमर्वागनासि गान्धर्वि!?,दिव्ये दीव्यसि किं मुधा? आसन्नं वर्तते लग्नं, ननु सर्वात्मना ततः । खे खे त्वरध्वं कर्त्तव्ये, विवाहोचितकर्मणि ॥७९४॥ मिथ इत्यादिशन्तीनां, नामग्रार्ह मुहुमुहुः । सरसोऽप्सरसां जज्ञे, तुमुलस्तत्र सम्भ्रमात् ॥ ७९५॥ [एकादशभिः कुलकम् ]] सुमङ्गलां सुनन्दां च, मङ्गलस्नानहेतवे । ततश्चाऽप्सरसः काश्चिदासयामासुरासने ॥ ७९६ ॥ तयोरुद्गीयमाने च, धवले मङ्गले कले । व्यधुः सर्वाङ्गमभ्यङ्ग, तैलेनाऽथ सुगन्धिना ॥ ७९७ ॥ पतदुद्वर्तनीपुञ्जपवित्रितमहीतलम् । पिष्टातकैः सूक्ष्मपिष्टैश्चक्रुश्चोद्वर्त्तनं तयोः॥ ७९८ ॥ पादयोर्जानुनोः पाण्योरंसयोरलिके तयोः । सुधाकुण्डान्नवेवाऽङ्गलीनास्तास्तिलकान् व्यधुः ॥ ७९९ ॥ कौसुम्भसूत्रैस्तकुस्थैरङ्गं सव्यापसव्ययोः । ताः पस्पृशुः समचतुरस्रतामिव वीक्षितुम् ॥ ८००॥ एवं ते वरवर्णिन्यौ, वर्णके ताभिरहिते । प्रयत्नाद् वारयन्तीभिर्धात्रीभिरिव चापलात् ॥८०१॥ तदैवोद्वर्णकमपि, वर्णकस्येव सोदरम् । व्यधुस्तेनैव विधिना, तयोस्ताः प्रमदोन्मदाः ॥ ८०२॥ निवेश्य चाऽऽसनेऽन्यस्मिन् , स्वर्णकुम्भोदकैरथ । स्वपयन्ति स्म तास्ते खकुलयोरिव देवते ॥ ८०३ ॥ विदधुर्गन्धकाषाय्या, तयोरङ्गप्रमार्जनम् । केशांश्च वेष्टयामासुर्वाससा मसृणेन ताः॥ ८०४ ॥ तास्ते क्षौमाणि संव्याय्याऽऽसयित्वा चाऽऽसनान्तरे । केशेभ्योऽश्चोतयन् वारि, मुक्तावृष्टिभ्रमं दिशत् ८०५ ईषदाानधूपायन् , दिव्यधृपेन कुन्तलान् । स्निग्धधूमलतापुष्टश्रीविशेषांस्तयोश्च ताः॥ ८०६॥ स्थापिते । २ परिधाप्य । ऋषभप्रभोः पाणिग्रहणम्। ॥ ५९॥ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy