________________
क्वचित् स्फटिकबद्धोवीनिरन्तरमरीचिभिः । सोऽतनोन्मण्डपः क्रीडापीयूषसरसीभ्रमम् ॥ ७७७ ॥ पद्मरागशिलाशोचिनिचयैः प्रसृतैः क्वचित् । सोऽदिशद् दिव्यविस्तारिकौसुम्भांशुकसंशयम् ॥ ७७८ ॥ क्वचिन्नीलशिलारश्मिप्ररोहः सोऽतिहारिभिः। पुनरुक्तोप्तमङ्गल्ययवाङ्कर इवाऽऽबभौ ।। ७७९ ॥ क्वचिन्मरकतक्षोणिरश्मिदण्डैरखण्डितैः । आोपनीतमङ्गल्यवंशशङ्का दिदेश सः॥ ७८० ॥ श्वेतदिव्यांशुकोल्लोचच्छलेन गगनस्थया । गङ्गयेवाऽऽश्रितः सोऽभूत्, तत्कौतुकदिदृक्षया ॥ ७८१॥ उल्लोचं परितस्तं च, लम्बिता मौक्तिकस्रजः । अष्टानां ककुभां हर्षहसितानीव रेजिरे ॥ ७८२ ॥ चतस्रो रत्नकलसश्रेणयोऽभ्रंलिहायकाः । पर्यष्ठाप्यन्त देवीभिर्निधानानि रतेरिव ॥ ७८३ ॥ आर्द्राः शुशुभिरे वंशाः, कुम्भावष्टम्भदायिनः । विश्वावष्टम्भदस्वामिवंशवृद्धेर्नु सूचकाः ॥ ७८४ ॥ आरभख स्रजो रम्भे !, दूर्वामुर्वशि! सज्जय । घृताचि! घृतदध्यादि, वराघोय समाहर ॥ ७८५॥ मञ्जुघोषे ! मञ्जुघोषयाऽऽलीर्धवलमङ्गलान् । त्वं सुगन्धे! सुगन्धीनि, वस्तूनि प्रगुणीकुरु ॥ ७८६ ॥ खस्तिकानुत्तमान् द्वारदेशे देहि तिलोत्तमे ! । मेने ! सम्मानयाऽऽयातानुचितालापभङ्गिभिः ॥ ७८७।। सुकेशि! केशाभरणं, वधूवरकृते धर । सहजन्ये! जन्ययात्रानृणां स्थान प्रदर्शय ॥ ७८८ ॥ चित्रलेखे ! लिखाऽऽलेख्यं, विचित्रं मातृवेश्मनि । प्रगुणीकुरु तूर्ण त्वं, पूर्णपात्राणि पूर्णिनि! ॥७८९॥ पुण्डरीके ! पुण्डरीकैः, पूर्णकुम्भान् विभूषय । त्वं स्थापय यथास्थानमम्लोचे! वरमश्चिकाम् ॥७९०॥ आपादय हंसपादि !, त्वं वधूवरपादुकाः। त्वं पुञ्जिकास्थले ! वेदिस्थली लिम्पाऽऽशु गोमयैः ॥७९१॥ रामे! किं रमसेऽन्यत्र!, हेमे ! किं हेम वीक्षसे । ऋतुस्थले !प्रमत्तेव, किमसि त्वं विसंस्थुला ॥७९२॥
Jain Education Internatione
For Private & Personal use only
www.jainelibrary.org