SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ F] विमलं वर्तुलं कान्तितरङ्गि वदनं विभोः । पीयूषदीधितिरिवाऽपरो लाञ्छनवर्जितः ॥ ७१५ ॥ मसृणौ मांसलौ स्निग्धौ, कपोलफलको प्रभोः । दर्पणाविव सौवौँ, वाग्लक्ष्म्योः सहवासयोः ॥ ७१६ ॥ अन्तरावर्तसुभगौ, कौँ स्कन्धावलम्बिनौ । प्रभोर्मुखप्रभासिन्धुतीरस्थे शुक्तिके इव ॥ ७१७॥ ओष्ठौ बिम्बोपमौ दन्ता, द्वात्रिंशत् कुन्दसोदराः । क्रमस्फारा क्रमोत्तुङ्गवंशा नासा महेशितुः ॥७१८॥ अहखदीर्घ चिबुकं, मांसलं वर्तुलं मृदु । मेचकं बहलं स्निग्धं, कोमलं श्मश्रु तायिनः ॥ ७१९ ॥ प्रत्यग्रकल्पविटपिप्रवालारुणकोमला । प्रभोर्जिह्वाऽनतिस्थूला, द्वादशाङ्गागमार्थसूः ॥ ७२० ॥ अन्तरा कृष्णधवले, प्रान्तरक्ते विलोचने । नीलस्फटिकशोणाश्ममणिन्यासमये इव ॥ ७२१॥. ते च कर्णान्तविश्रान्ते, कजलश्यामपक्ष्मणी । विकस्वरे तामरसे, निलीनालिकुले इव ॥ ७२२ ॥ बिभराश्चक्रतुर्भर्तुः, श्यामले कुटिले भ्रुवौ । दृष्टिपुष्करिणीतीरसमुद्भिन्नलताश्रियम् ॥ ७२३ ॥ विशालं मांसलं वृत्तं, कठिनं मसृणं समम् । भालस्थलं जगद्भर्खरष्टमीसोमसोदरम् ॥ ७२४ ॥ भुवनखामिनो मौलिरानुपूर्व्या समुन्नतः । दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ॥ ७२५ ॥ मौलिच्छत्रे महेशस्य, जगदीशत्वशंसिनि । वृत्तमुत्तुङ्गमुष्णीषं, शिश्रिये कलसश्रियम् ॥ ७२६ ॥ केशाश्चकाशिरे मूर्ध्नि, प्रभोर्धमरमेचकाः । कुञ्चिताः कोमलाः स्निग्धाः, कालिन्या इव वीचयः ॥७२७॥ गोरोचनागर्भगौरी, स्निग्धखच्छा त्वगाबभौ । वर्णद्रवविलिप्तेव, तनौ त्रिजगदीशितुः ॥ ७२८॥ मृदुनि भ्रमरश्यामान्यद्वितीयोद्गमानि च । बिसतन्तुतनीयांसि, लोमानि स्वामिनस्तनौ ।। ७२९ ।। इत्यसाधारणैर्नानालक्षणेर्लक्षितः प्रभुः । रत्नै रत्नाकर इव, सेव्यः कस्येव नाऽभवत् ? ॥ ७३०॥ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy