________________
त्रिषष्टिशलाका
| प्रथमं पर्व द्वितीयः
पुरुषचरिते
सर्गः
॥५६॥
ऋषभचरितम् ।
| ऋषभस्य
यौवनं
खामिनः कुञ्जरस्येव, मुष्की गूढौ समस्थिती । अतिगूढं च पुंश्चिदं, कुलीनस्येव वाजिनः ॥ ६९९ ॥ तच्चाऽसिरमनिम्नोचमहखादीर्घमश्लथम् । सरलं मृदु निर्लोम, वर्तुलं सुरभीन्द्रियम् ॥ ७००॥ शीतप्रदक्षिणावर्त्तशब्दयुक्तकधारकम् । अबीभत्सावर्त्ताकारकोशस्थं पिञ्जरं तथा ॥ ७०१॥ आयता मांसला स्थूला, विशाला कठिना कटिः । मध्यभागस्तनुत्वेन, कुलिशोदरसोदरः ॥ ७०२ ॥ नाभिर्वभार गम्भीरा, सरिदावर्त्तविभ्रमम् । कुक्षी स्निग्धौ मांसवन्तौ, कोमलौ सरलौ समौ ॥ ७०३ ॥ अधाद् वक्षःस्थलं स्वर्णशिलापृथुलमुन्नतम् । श्रीवत्सरत्नपीठाई, श्रीलीलावेदिकाश्रियम् ॥ ७०४॥ . दृढपीनोन्नती स्कन्धौ, ककुमत्ककुदोपमौ । अल्परोमोन्नते कक्षे, गन्धस्खेदमलोज्झिते ॥ ७०५॥ पीनौ पाणिफणाच्छत्रौ, भुजावाजानुलम्बिनौ । चञ्चलाया नियमने, नागपाशाविव श्रियः ॥ ७०६॥ नवाम्रपल्लवाताम्रतलौ निष्कर्मकर्कशौ । अखेदनावपच्छिद्रावुष्णौ पाणी जगत्पतेः ॥ ७०७ ॥ दण्डचक्रधनुर्मत्स्यश्रीवत्सकुलिशाङ्कुशैः । ध्वजाब्जचामरच्छत्रशकुम्भाब्धिमन्दरैः ॥ ७०८ ॥ मकरर्षभसिंहाश्वरथस्वस्तिकदिग्गजैः । प्रासादतोरणद्वीपैः, पाणी पादाविवाङ्कितौ ॥ ७०९॥ [युग्मम् ]] अङ्गुष्ठोऽङ्गुलयः शोणाः, सरलाः शोणपाणिजाः । प्ररोहा इव कल्पद्रोः, प्रान्तमाणिक्यपुष्पिताः॥७१० ॥ यवाः स्पष्टमशोभन्त, स्वामिनोऽङ्गुष्ठपर्वसु । यशोवरतुरङ्गस्य, पुष्टिवैशिष्ट्यहेतवः ॥ ७११॥ अङ्गुलीमृर्द्धसु विभोः, सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावर्ता, दक्षिणावर्त्तशङ्खताम् ॥ ७१२ ॥ . कृच्छ्रादुद्धरणीयानि, जगन्ति त्रीण्यपीत्यभान् । सङ्ख्यालेखा इव तिस्रो, लेखा मूले कराब्जयोः ॥७१३॥ वर्तुलोऽनतिदीर्घश्च, लेखात्रयपवित्रितः । गम्भीरध्वनिराधत्त, कण्ठः कम्बुविडम्बनाम् ॥ ७१४ ॥
SSROSSESSAGARANA
| देहशोभा ला लक्षणानि च।
॥५६॥
Jain Education Interna
For Private & Personal use only
www.jainelibrary.org