________________
अङ्गुष्ठपानावस्थायाः, परस्ताद् वयसि स्थिताः । गृहवासेऽपरेऽर्हन्तः, सिद्धमन्नं हि भुञ्जते ॥ ६८३॥
ऋषभस्य
यौवनं देवानीतोत्तरकुरुफलानि बुभुजे सदा । क्षीरोदवारि च पपौ, भगवान्नाभिनन्दनः॥ ६८४॥
देहशोभा बाल्यं कल्यमिवोल्लङ्थ, मध्यन्दिनमिवाय॒मा । विभुर्विभक्तावयवं, द्वितीयं शिश्रिये वयः॥६८५॥Sणानि च । यौवनेऽपि मृद रक्तौ, कमलोदरसोदरौ । उष्णावकम्प्रावखेदौ, पादौ समतलौ प्रभोः॥ ६८६॥ नतार्तिच्छेदनायेव, प्रपेदे चक्रमीशितुः । सदास्थितश्रीकरणोरिव दामाङ्कुशध्वजाः॥ ६८७॥ .. खामिनः पादयोर्लक्ष्मीलीलासदनयोरिव । शङ्खकुम्भौ तले पाणी, स्वस्तिकश्च विरेजिरे ॥ ६८८॥ मांसलो वर्तुलस्तुङ्गो, भुजङ्गमफणोपमः । अङ्गुष्ठः स्वामिनो वत्स, इव श्रीवत्सलाञ्छितः॥ ६८९ ॥ प्रभोनिर्वातनिष्कम्पस्निग्धदीपशिखोपमाः। नीरन्ध्रा ऋजवोऽङ्गल्यो, दलानीव पदाब्जयोः॥ ६९०॥ नन्द्यावर्ता जगद्भर्तुः, पादाङ्गुलितलेष्वभान् । यदिम्बानि क्षितौ धर्मप्रतिष्ठाहेतुतां ययुः॥ ६९१ ॥ यवाः पर्वस्वङ्गुलीनामधो वापीभिरावभुः । उता इव जगल्लक्ष्मीविवाहाय जगत्प्रभोः ॥ ६९२ ॥ कन्दः पादाम्बुजस्येव, पार्णिवृत्तायतः पृथुः । अङ्गुष्ठाङ्गुलिफणिनां, फणामणिनिभा नखाः ॥ ६९३ ॥ हेमारविन्दमुकुलकर्णिकागोलकश्रियम् । गूढौ गुल्फो वितेनाते, नितान्तं स्वामिपादयोः ६९४ ॥ प्रभोः पादावुपर्यानुपूर्व्या कूर्मवदुबतौ । अप्रकाशशिरौ स्निग्धच्छवी लोमविवर्जितौ ॥ ६९५ ॥ अन्तर्मनास्थिपिशितपुष्कले क्रमवर्तुले । एणीजङ्घाविडम्बिन्यौ, जङ्घ गौयौं जगत्पतेः॥ ६९६ ॥ जानुनी स्वामिनोऽधातां, वर्तुले मांसपूरिते । तूलपूर्णपिधानान्तःक्षिप्तदर्पणरूपताम् ॥ ६९७ ॥ ऊरू च मृदुलौ स्निग्धावानुपूर्येण पीवरौ । बिभराञ्चक्रतुः प्रौढकदलीस्तम्भविभ्रमम् ॥ ६९८॥
नस्पेव, पाणिवृत्तावभुः । उता इव जन क्षितौ धर्मप्रतिष्ठा
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org