________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ५५ ।।
Jain Education International
जग्राह पाणिना स्वामी, यत् किञ्चिल्लीलयाऽपि हि । महर्द्धिकोऽपि त्रिदशो, न तदाच्छेत्तुमीश्वरः ||६६८|| बलं परीक्षितुमधादङ्गुलीमपि यः प्रभोः । स श्वासपवनेनाऽपि ययौ दूरेण रेणुवत् ॥ ६६९ ॥ स्वामिनं रमयामासुः, केचित् सुरकुमारकाः । विचित्रैः कन्दुकैर्भूमौ लुठन्तः कन्दुका इव ॥ ६७० ॥ चाटूनि जीव जीवेति, नन्द नन्देत्यनेकशः । केऽपि राजशुकीभूय, चाटुकारा इवाऽवदन् ॥ ६७१ ।। स्वामिनो रमणायैके, केकीभूय दिवौकसः । केकाप्रधानाः पुरतो, ननृतुः षड्जगायिनः ॥ ६७२ ॥ हंसीभूयाऽपरे चेरुः पार्श्वे गान्धारराविणः । प्रभोः सलीलहस्ताब्जग्रहणस्पर्शतृष्णया ।। ६७३ ||
भूयाऽग्रतः केsपि, मध्यमाराविणोऽरसन् । स्वामिनः प्रीतिमदृष्टिपातामृतपिपासिताः ॥ ६७४ ॥ Paste पुंस्कोकिलीभूय, पञ्चमस्वरमुञ्जगुः । स्थित्वोपस्वामितरुषु तन्मनः प्रीतिहेतवे ॥ ६७५ ॥ आययुस्तुरगीभूय, धैवतध्वनिहेषिणः । स्वामियानतयाऽऽत्मानं, पिपावयिषवोऽपरे ।। ६७६ ॥ asarः कलभीभूय, निषादस्वरराविणः । स्पृशन्तोऽधोमुखीभूय, करेण चरणौ प्रभोः ।। ६७७ ॥ her वृषभीभूय, ऋषभस्वरबन्धुराः । ताडयन्तस्तटीः शृङ्गैर्दृग्विनोदं व्यधुर्विभोः ॥ ६७८ ॥ महिषीभूय केऽप्यस्थुरञ्जनाचलसन्निभाः । युध्यमाना मिथो युद्धक्रीडां भर्त्तुरदर्शयन् ॥ ६७९ ॥ केऽपि भर्तुर्विनोदायाऽऽस्फालयन्तो भुजान् मुहुः । मल्लीभूयाऽक्षवाटान्तराह्वासेत परस्परम् ।। ६८० ॥ एवं विनोदैर्विविधैर्वृन्दारककुमारकैः । उपास्यमानः सततं, परमात्मेव योगिभिः ॥ ६८१ ॥ ताभिर्धात्रीभिरुद्यानपालीभिरिव पादपः । अप्रमत्तं लाल्यमानः क्रमेण ववृधे प्रभुः ॥ ६८२ || [सन्दानितकम् ] * णो बभुः सं १, खं ॥ १ मल्लयुद्धभूमिषु । २ आहूतवन्तः ।
For Private & Personal Use Only
प्रथमं पर्व द्वितीयः सर्गः
ऋषभ
चरितम् ।
ऋषभस्य देवैः
सह क्रीडनम् ।
॥ ५५ ॥
www.jainelibrary.org