________________
ऋषभप्रभोवंशस्थापना।
BARSANSAR
भगवान् शुशुभे बालः, पितुरुत्सङ्गमाश्रितः । अङ्के शिखरिणः सिंहकिशोर इव भासुरः ॥ ६५२ ॥ शक्रादिष्टाश्च धान्यस्ताः, पश्चापि परमेश्वरम् । महामुनि समितय, इवाऽमुश्चन् न जातुचित् ॥ ६५३ ॥ - खामिनो जन्मनः किश्चिदूने संवत्सरे सति । सौधर्मवासवो वंशस्थापनार्थमुपाययौ ॥ ६५४ ॥ भृत्येन रिक्तहस्तेन, न कार्य स्वामिदर्शनम् । इति बुद्ध्येव महतीमिक्षुयष्टिं स आददे ॥ ६५५ ॥ सेक्षुयष्टिः सुनासीरः, शरत्काल इवाऽङ्गवान् । नाभ्युत्सङ्गनिषण्णस्य, जगाम स्वामिनोऽग्रतः ॥६५६ ॥ ज्ञात्वा च शक्रसङ्कल्पमवधिज्ञानतो विभुः । तामिक्षुयष्टिमादातुं, करीव करमक्षिपत् ॥ ६५७ ॥ प्रणम्य शिरसा शक्रः, स्वामिने भाववित् ततः । अर्पयामास तामिक्षुलतिकामुपदामिव ॥ ६५८ ॥ यदिक्षुराददे भर्चेक्ष्वाकुरित्याख्यया ततः । स्वामिवंशं प्रतिष्ठाप्य, दिवस्पतिरगाद् दिवम् ॥ ६५९ ॥
देहो युगादिनाथस्य, खेदामयमलोज्झितः । सुगन्धिः सुन्दराकारस्तपनीयारविन्दवत् ॥ ६६० ॥ गोक्षीरधाराधवले, अविस्र मांसशोणिते । आहारनीहारविधिलॊचनानामगोचरः ॥ ६६१॥ . उत्फुल्लकुमुदामोदसोदरं श्वाससौरभम् । चत्वारोऽतिशया एते, बभूवुर्जन्मना सह ॥ ६६२ ॥ वज्रऋषभनाराचं, दधत् संहननं प्रभुः । मन्दं चचाल पादाभ्यां, भूमिभ्रंशभयादिव ॥ ६६३ ॥ प्रभुईभाषे बालोऽपि, गम्भीरमधुरध्वनिः । नृणां लोकोत्तराणां हि, बाल्यं वपुरपेक्षया ॥६६४ ॥ संस्थानं स्वामिनस्तुल्यचतुरस्रमशोभत । श्रियां रिरंसमानानां, क्रीडावेदीव काञ्चनी ॥ ६६५ ॥. सवयोभूय सम्भूयाऽऽयातैः सुरकुमारकैः । अरस्त वृषभस्वामी, तेषां चित्तानुवृत्तये ॥ ६६६ ॥ धूलीधूसरसर्वाङ्गो, विभ्राणो घर्घरस्रजम् । कलभोऽन्तर्मदावस्थ, इव क्रीडन् बभौ विभुः॥६६७ ॥
त्रिषष्टि, १०
Jain Education International
For Private & Personal use only
www.jainelibrary.org