________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥५४॥
SAUSASSASS
द्वितीय सर्गः ऋषभचरितम् ।
चैत्येष्वर्हत्प्रतिमानां, शाश्वतीनां यथाविधि । चत्वारः शक्रदिक्पालाश्चक्रुरष्टाह्निकोत्सवम् ॥ ६३६ ॥ ईशानेन्द्रोऽप्यवातारीदुत्तराशाप्रतिष्ठिते । रमणीयाह्वये नित्यरमणीयेऽञ्जनाचले ॥ ६३७ ॥ तत्र चैत्ये तावतीनां, शाश्वतीनां तथैव सः । प्रतिमानामाहतीनां, चकाराऽष्टाह्निकोत्सवम् ॥ ६३८॥ तस्यापि लोकपालास्तद्वापीदधिमुखाद्रिषु । शाश्वताहत्प्रतिमानां, तद्वद् विदधुरुत्सवम् ॥ ६३९ ॥ चमरेन्द्रोऽप्युत्ततार, दक्षिणाशाव्यवस्थिते । नित्योहयोताभिधे रत्ननित्योझोतेऽञ्जनाचले ॥ ६४० ॥ भक्त्या महत्या तत्राऽयमपि चैत्ये यथाविधि । शाश्वतीनां प्रतिमानां, विदधेऽष्टाह्निकोत्सवम् ॥ ६४१॥ तद्वाप्यन्तर्दधिमुखाचलेष्वचलचेतसः । चक्रुर्जिनप्रतिमानां, तद्दिक्पाला महोत्सवम् ॥ ६४२ ॥ अवातरद् बलीन्द्रोऽपि, पश्चिमाशानिवासिनि । स्वयम्प्रभाभिधेऽम्भोदप्रभाचौरेऽञ्जनाचले ॥६४३ ॥ शाश्वतीनामृषभादिप्रतिमानामसावपि । उत्सवं विदधे तद्वद्, दिविषदृष्टिपावनम् ॥ ६४४॥ तत्पुष्करिणीकान्तःस्थेपृच्चैदेधिमुखाद्रिपु । चक्रुस्तस्यापि दिक्पालाः, शाश्वतप्रतिमोत्सवम् ॥ ६४५॥ इति नन्दीश्वरे चैत्यमहिमानं विधाय ते । पथा यथागतेनैव, खं खं स्थानं ययुः सुराः ॥ ६४६॥ ___ स्वामिनी मरुदेवापि, सम्प्रबुद्धाऽथ नाभये । नैशं स्वममिवाऽमर्त्यसम्पातं तमचीकथत् ॥ ६४७ ॥ ऊरुप्रदेशे ऋषभो, लाञ्छनं यजगत्पतेः । ऋषभः प्रथमं यच्च, स्वमे मात्रा निरीक्षितः॥ ६४८॥ तत् तस्य ऋषभ इति, नामोत्सवपुरःसरम् । तौ मातापितरौ हृष्टी, विदधाते शुभे दिने ॥ ६४९ ॥ तदा च युग्मजातायाः, कन्याया अपि पावनम् । सुमङ्गलेति पितरौ, यथार्थ नाम चक्रतुः ॥ ६५०॥ शक्रसमिता स्वामी, निजाङ्गुष्ठे सुधामथ । पिबति स यथाकालं, कुल्याजलमिवाऽशिपः ॥ ६५१॥
देवानां नन्दीश्वरे गमन,
ऋषभ इति प्रभोर्नामकरणं च।
॥५४॥
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org