SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरित | द्वितीय सर्गः ऋषभचरितम्। ॥५३॥ न कश्चिदुपमापात्रं, भवतो भवतारक ! । ब्रूमस्त्वत्तुल्यमेव त्वां, यदि का तर्हि ते स्तुतिः ? ॥ ६०८॥ नासि वक्तुमलं नाथ, सद्भूतानपि ते गुणान् । खयम्भूरमणाम्भोघेर्मातुमम्भांसि कः क्षमः ॥६०९॥ इति स्तुत्वा जगन्नाथं, प्रमोदामोदिमानसः । विचके पश्चधाऽऽत्मानं, पूर्ववत् पूर्वदिक्पतिः ॥६१०॥ ईशानोत्सङ्गतः शक्रः, एकस्तत्राऽप्रेमद्वरः । रहस्यमिव जग्राह, हृदयेन जगत्पतिम् ॥ ६११॥ अपरे पूर्ववत् खानि, स्वानि कर्माणि चक्रिरे । विनियुक्ता इव खामिसेवाविज्ञा बिडौजसः ॥ ६१२ ॥ वृतो निजामरैः सर्पन्नम्बरेणाऽमराग्रणीः । जगाम धाम तद् देव्याऽलङ्कृतं मरुदेवया ॥ ६१३॥ - तीर्थकृत्प्रतिरूपं तदुपसंहृत्य वासवः । तथैव स्थापयामास, स्वामिनं मातुरन्तिके ॥ ६१४ ॥ तामवखापनी निद्रां, पग्रिन्या इव भास्करः । स्वामिन्या मरुदेवाया, व्यपनिन्ये दिवस्पतिः ॥६१५॥ कूलिनीकूललुलितहंसमालाविलासभृत् । एकं दुकूलयुगलमुच्छी सोऽमुचत् प्रभोः ॥ ६१६ ॥ तत्रैव स न्यधाद् रत्नकुण्डलद्वयमीशितुः । बालत्वेऽपि समुद्भूतभामण्डलविकल्पदम् ॥ ६१७ ॥ एकं श्रीदामगण्डं च, स्वर्णप्राकारनिर्मितम् । विचित्ररत्नहारार्धहाराढ्यं हेमभासुरम् ॥ ६१८॥ उपरि स्वामिनो दृष्टिविनोदाय पुरन्दरः । विताने स्थापयामास, नभसीव नभोमणिम् ॥ ६१९ ॥ [सन्दानितकम् ] : अथ स श्रीदमादिक्षत् , प्रत्येकमपि सम्प्रति । हिरण्यवर्णरत्नानां, कोटीात्रिंशतं द्रुतम् ॥६२०॥ नन्दासन-भद्रासनान्यथ द्वात्रिंशतं पृथक् । अन्यच्च वस्त्रनेपथ्यप्रभृत्यतिमनोहरम् ॥ ६२१ ॥ १सावधानः। सौधर्मेन्द्रविहित ऋषभजिनखात्रोत्सवः। ॥५३॥ Jain Education International For Private & Personal use only | www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy