SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व द्वितीयः सर्गः ऋषभचरितम् । ॥५२॥ उत्तुङ्गशृङ्गरुचिरा, वृषभास्ते चकाशिरे । दिशां चतसृणां चान्द्रकान्ताः क्रीडाचला इव ॥ ५७८ ॥ तेषां स्फोटितपातालनालेभ्य इव सन्तताः । शृङ्गेभ्योऽष्टभ्य उत्पेतुर्वारिधारा नभस्तले ॥ ५७९ ॥ मूले भिन्नास्तोयधाराधोरण्यस्ता निरन्तराः । अन्ते मिलन्त्यः खे चक्रुर्नदीसङ्गमविभ्रमम् ॥ ५८०॥ सकौतुकं वीक्ष्यमाणाः, सुरासुरवधूजनैः । ताः पेतुर्जगतांपत्यावपांपत्याविवाऽऽपगाः॥५८१॥ शृङ्गेभ्यो जलयत्रेभ्य, इव निर्यद्भिरम्बुभिः । शक्रेण स्नपयाश्चक्रे, भगवानादितीर्थकृत् ॥ ५८२॥ दूरमुच्छलता तेन, स्वामित्रपनवारिणा । आसन् भक्त्या मनांसीव, वासांस्थााणि नाकिनाम् ॥ ५८३॥ चतुरोऽपि महोक्षास्तानुपसंहृतवानथ । प्राचीनबर्हिः सहसेन्द्रजालमिव जालिकः ॥५८४॥ नपयित्वाऽतिविच्छददेिवं देवप्रभुः प्रभोः । रत्नादर्शमिवाऽमार्जदङ्ग देवाङ्गवाससा ॥ ५८५ ॥ अथ रत्नमये पट्टे, निर्मलै रूप्यतन्दुलैः । अखण्डैरालिखन् लेखाः, स्वामिनोऽग्रेऽष्टमङ्गलीम् ॥ ५८६ ॥ निजेनेवाऽनुरागेणाऽङ्गरागेण गरीयसा । अङ्गं विलेपयामास, वासवस्त्रिजगद्गुरोः ॥ ५८७॥ खामिनः स्मेरवकेन्दुकौमुदीभ्रमकारिभिः । विशदैर्दिव्यवासोभिः, पूजां व्यधित देवराट् ॥ ५८८ ॥ विश्वमूर्द्धन्यताचिह्न, मृर्द्धनि त्रिजगत्पतेः। वज्रमाणिक्यमुकुटं, स्थापयामास वज्रभृत् ॥ ५८९ ॥ न्यधत्त मघवा भर्तुः, कर्णयोः स्वर्णकुण्डले । व्योम्नः पूर्वापरदिशोः, सायं शशिरवी इव ॥ ५९० ।। लक्ष्म्या विभ्रमदोलेव, दिव्यमुक्तालता तता । न्यक्षेपि पुरुहूतेन, स्वामिनः कण्ठकन्दले ॥ ५९१ ॥ सोऽङ्गदे निदधे बाहुदण्डयोस्त्रिजगत्पतेः । सुवर्णवलये भद्रकलभस्येव दन्तयोः ॥ ५९२ ॥ १ समुद्रे । २ इन्द्रः। ३ देवाः । सौधर्मेन्द्र विहित ऋषभजिनमात्रोत्सवः। ॥५२॥ Jan Education Interna For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy