SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुपचरिते सर्गः ॥५१॥ +USA केचिदन्दोलयामासुश्चामराण्यमरोत्तमाः । आह्वयन्त इवाऽऽत्मीयान् , स्वामिदर्शनहेतवे ॥ ५४७ ॥ केचिद् बद्धपरिकरा, विभ्राणाः स्वस्वमायुधम् । परितः स्वामिनं तस्थुरात्मरक्षा इवाऽमराः ॥ ५४८ ॥ द्वितीयः सुराः केचिन्मणिवर्णतालवृन्तान्यचीचलन् । उद्यद्विद्युल्लतालीलां, दर्शयन्तो नभस्तले ।। ५४९ ॥ विचित्रदिव्यसुमनोवृष्टिं त्रिदिववासिनः । हर्षोत्कर्षजुषोऽकार्प, रङ्गाचार्या इवाऽपरे ॥५५० ॥ ऋषभनितान्तसुरभिं गन्धद्रव्यक्षोदं चतुर्दिशम् । अवर्षन्नपरे चूर्णमुच्चाटनमिवांहसाम् ॥५५१॥ " चरितम् । खामिनाधिष्ठितस्याऽद्रेमरोर्ब्रद्धिमिवाऽधिकाम् । चिकीर्षवः केऽपि सुराः, स्वर्णवृष्टिं वितेनिरे ॥ ५५२ ॥3 खामिपादप्रणामावतरत्ताराविडम्बिनीम् । केचिदुच्चै रत्नवृष्टिं, त्रिविष्टपसदो व्यधुः ॥ ५५३ ॥ | अच्युतेन्द्रगन्धर्वानीकमधरीकुर्वन्तो मधुरखरैः । ग्रामरागैर्नवनवैः, केचन खामिनं जगुः ॥ ५५४ ॥ विनिर्मित ततान्यथाऽवनद्धानि, धनानि शुपिराणि च । वादयामासुरातोद्यान्यन्ये भक्तिीनेकधा ॥ ५५५ ॥ ऋषभजिन-- निनर्तयिषव इव, स्वर्णशैलशिरांस्यपि । पादपातैः कम्पयन्तो, ननृतुः केऽपि नाकिनः ॥ ५५६ ॥ खात्रोत्सवः। नाट्यं प्रवर्त्तयामासुर्विचित्राभिनयोज्वलम् । त्रिदशाः सह जायाभिर्जायाजीवा इवाऽपरे ॥ ५५७ ॥ गरुन्मन्त इवोत्पेतुरमराः केचिदम्बरे । निपेतुः क्रीडया केचित् , ताम्रचूडा इवाऽवनौ ॥ ५५८ ॥ ववल्गुल्गु केऽप्यङ्ककारा इव दिवौकसः । केपि सिंहा इवाऽऽनन्दात् , सिंहनादं वितेनिरे ॥५५९॥ उच्चकैश्चक्रिरे केचित् , कुञ्जरा इव बृंहितम् । सहर्षा हेषितं केचित्, तेनिरे तुरगा इव ॥ ५६०॥ ॥५१॥ स्पन्दना इव केचिच्च, व्यधुर्घणघणारवम् । विदूषका इवाऽन्येषां, चक्रुः शब्दचतुष्टयीम् ॥५६१॥ तराचार्याः। २ कुछुटाः । ३ मछाः । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy