SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ हरेः पयतः कुम्भा, भवन्तोऽधोमुखा बभुः । स्नात्रस्तोकीभवद्वारिसम्पदा लजिता इव ॥ ५३१॥ तानेव विभराञ्चक्रुः, कुम्भान् कुम्भान्तराम्बुभिः । आभियोगिकगीर्वाणाः, कुर्वाणाः स्वामिशासनम्॥५३२॥ वृन्दारकाणां हस्तेषु, हस्तेभ्यः सञ्चरिष्णवः । बभ्राजिरे ते कलशाः, श्रीमतां बालका इव ॥ ५३३ ॥ ढोक्यमानाभितो नाभिसूनुं कलशधोरणी । आरोप्यमाणस्वर्णाब्जमालालीलायितं दधौ ॥ ५३४ ॥ पुनः पालोठयन् कुम्भानमराः स्वामिमूर्द्धनि । पयःशब्दायितमुखानर्हत्स्तुतिपरानिव ॥ ५३५ ॥ खामिस्नात्रे हरे रिक्तरिक्तान् कुम्भानपूरयन् । अमराश्चक्रिणो यक्षा, निधानकलशानिव ॥ ५३६ ॥ रिक्तरिक्ता भृतभृता, रेजिरे सञ्चरिष्णवः । भूयो भूयः कलशास्तेऽरघट्टपटिका इव ॥ ५३७ ॥ एवमच्युतनाथेन, यथेष्टं कुम्भकोटिभिः । स्वामिनो विदधे स्नात्रं, चित्रमात्मा पवित्रितः ॥ ५३८॥ दिव्यया गन्धकाषाय्याऽऽरणाच्युतविभुर्विभोः । अङ्गमुन्मार्जयामास, स्वयं मार्जितमान्यथ ॥ ५३९ ।। सा रेजे गन्धकाषायी, स्पृशन्ती स्वामिनो वपुः । प्रातःसन्ध्याभ्रलेखेव, मण्डलं चण्डरोचिषः ॥ ५४॥ सुवर्णसारसर्वस्वं, सुवर्णाद्रेरिवैकतः । आहृतं शुशुभे तादृगुन्मृष्टं भगवद्वपुः॥ ५४१॥ ___अथाऽऽभियोग्या गोशीर्षचन्दनद्रवकर्दमम् । पात्रिकाभिर्विचित्राभिरच्युतायोपनिन्यिरे ॥ ५४२ ॥ विलेपयितुमारेमे, प्रभु तेन पुरन्दरः । सुमेरुशैलकटकं, ज्योत्स्नयेव निशाकरः ॥ ५४३॥ अभितः खामिनं केचिदुत्तरासङ्गधारिणः । उद्दामधूपदहनपाणयोऽस्थुरथाऽमराः ॥ ५४४ ॥ केपि तत्राक्षिपन् धूपं, स्निग्धया धूमलेखया । मेरोनीलमयीं चूला, रचयन्त इवाऽपराम् ॥ ५४५॥ केपि श्वेतातपत्राणि, धारयामासुरुच्चकैः । कुमुदिव कुर्वाणा, अन्तरिक्षमहासरः ॥ ५४६॥ Jan Education International For Private & Personal use only
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy