SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥५०॥ तेऽम्भस्कुम्भाः शुशुभिरे, लुठन्तः खामिमूर्द्धनि । सुमेरुशैलशिखरे, वर्षन्त इव वारिदाः ॥ ५१७ ॥ 17 प्रथमं पर्व अमरैर्नाम्यमानास्ते, मूर्द्धन्युभयतः प्रभुम् । सद्यः सङ्घटयामासुर्माणिक्योत्तंसविभ्रमम् ॥ ५१८॥ द्वितीय कुम्भेभ्यः पूजितायेभ्यस्ताः पतन्त्यश्चकाशिरे । वारिधारा गिरिदरीमुखेभ्य इव निर्झराः॥५१९ ॥ सगे: , उच्छलन्त्यो मौलिदेशाद् , विष्वद्रीच्यो जलच्छटाः । स्वामिनो धर्मकन्दस्य, प्ररोहा इव रेजिरे ॥ ५२०॥ ऋषभपरिवेषेण विस्तीर्ण, मूर्ध्नि श्वेतातपत्रवत् । ललाटपट्टे प्रसरच्चान्दनीव लेलाटिका ॥ ५२१ ॥ चरितम्। कर्णयोः प्रान्तविश्रान्तनयनोपान्तकान्तिवत् । कपोलपाल्योः कर्पूरपत्रवल्लिवितानवत् ॥ ५२२ ॥ मनोज्ञयोरधरयोः, स्मितद्युतिकलापवत् । कण्ठकन्दलदेशे तूद्दाममौक्तिकदामवत् ॥ ५२३॥ अच्युतेन्द्र स्कन्धदेशोपरिष्टाच, गोशीर्षस्थासकोपमम् । बाहुहृत्पृष्ठभागेषु, विशाल इव चोलकः ॥ ५२४ ॥ विनिर्मित कटिजान्वन्तराले चोत्तरीयमिव विस्तृतम् । पतद् भगवति श्रेजे, क्षीरोदाधुदकं तदा ॥ ५२५ ॥ ऋषभजिन[पञ्चभिः कुलकम् ] खात्रोत्सवः। स्वामिस्नात्रजलं तच्च, भूमावपतदेव हि । श्रद्धया जगृहे कैश्चिन्मेघाम्भश्चातकैरिव ॥ ५२६॥ क नाम प्राप्स्यतेऽस्माभिर्भूयोऽद इति मूर्द्धनि । तत्पयः केचिदमरा, न्यधुर्मरुनरा इव ॥ ५२७॥ पयसा सिषिचे तेन, साभिलाषैश्च कैश्चन । भूयो भूयो वपुर्देवैग्रीष्मात्तैरिव कुञ्जरैः ॥ ५२८ ॥ ॥५०॥ रयेण प्रसरन्मेरुगिरिप्रस्थेषु तत् पयः । अकल्पयन्निर्झरिणीसहस्राणि समन्ततः॥ ५२९ ॥ तत् पाण्डके सौमनसे, नन्दने भद्रशालके । उद्याने प्रसृतातुल्यकुल्यालीलामशिश्रियत् ॥ ५३० ॥ * प्रभोः आ, सं २ ॥ योजनास्येभ्यस्ताः आ॥ १ ललाटालङ्कारः । For Private & Personal use only www.jainelibrary.org Jain Education Intels (6
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy