SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ अचदियामासु किन काराः । मन्थायस्तमहालनिस्रोतःकल्लोल अच्युतेन्द्र उपादत्त, समं सामानिकादिभिः । कुम्भान् सहस्रमष्टाग्रं, फलानीव स्वसम्पदः॥५०२ ॥ ते तेषां रेजुरुत्क्षिप्तभुजदण्डाग्रवर्तिनः । उदस्तोन्नालनलिनकोशलक्ष्मीविडम्बिनः॥ ५०३ ॥ अच्युतेन्द्रः स्त्रपयितुमथाऽऽरेमे जगत्पतिम् । आत्मीयमिव मूर्द्धानं, कलसं नमयन् मनाक् ॥५०४॥ अथोच्चैर्वादयामासु किनः केचिदानकान् । गुहाप्रतिरवैरुच्चैर्वाचालितसुराचलान् ॥ ५०५॥ दुन्दुभीस्ताडयामासुरपरे भक्तितत्पराः । मन्थायस्तमहाम्भोधिध्वानश्रीतस्करध्वनीन् ॥ ५०६ ॥ उत्तालाः कांस्यतालानि, केचिदास्फालयन् मिथः । पर्याकुलधानिस्रोतःकल्लोलाननिला इव ॥ ५०७॥ अवादयन् केऽपि तारं, भेरीरुन्मुखशालिनीः । ऊर्ध्वलोके जिनेन्द्राज्ञां, सर्वतस्तन्वतीरिख ॥ ५०८ ॥ अपूरयन् महानादबहलाः केपि काहलाः । नाईला इव गोशृङ्गाण्यद्रिशृङ्गस्थिताः सुराः॥५०९॥ दुष्टशिष्यानिवोद्घोषहेतवे मुरजान् मुहुः । पाणिभिस्ताडयामासुः, केचन त्रिदिवौकसः॥ ५१० ॥ असङ्ख्यातागतार्केन्दुमण्डलश्रीविडम्बिनीः । स्वर्णरूप्यमयीर्देवा, झल्लरीः केऽप्यवादयन् ॥५११॥ गण्डैः पीयूषगण्डूषगर्भेखि समुन्नतैः । तारमापूरयामासुः, शङ्खान् केपि दिवौकसः॥५१२॥ इत्थं विचित्रातोयेषु, वाद्यमानेषु नाकिभिः । अवादकमिवाऽऽतोय, द्यौरासीत् प्रतिशब्दितैः ॥ ५१३ ॥ जय नन्द जगन्नाथ , सिद्धिगामिन् ! कृपार्णव ! | धर्मप्रवर्तकेत्यादि, चारणश्रमणा जगुः ॥ ५१४ ॥ विचित्रैर्बुवकैः श्लोकैरुत्साहैः स्कन्धकैरपि । गलितैर्वस्तुवदनैर्गद्यैरपि मनोहरैः ॥५१५॥ स्तुतिं पठित्वा मधुरां, कुम्भान् भुवनभर्तरि । शनैः प्रलोठयामासाऽच्युतेन्द्रः खामरैः समम् ॥५१६॥ १दकाविशेषान् । २ किराताः । ३ वादकजनरहितम् । Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy