________________
चतुःषष्ट्या सहस्रः स, सामानिकदिवौकसाम् । यस्त्रिंशिवायस्त्रिंशैश्चतुर्भिर्लोकपालकैः ॥ ४४६ ॥ पञ्चभिश्चाग्र्यदेवीभिः, पर्षद्भिस्तिसृभिस्तथा । सप्तभिश्च महानीकैस्तदधीशैश्च सप्तभिः ॥ ४४७ ॥ प्रतिदिशं चतुःषष्ट्या, सहस्रैरात्मरक्षिणाम् । वृतोऽपरैरप्यसुरकुमारैः परमद्धिभिः ॥ ४४८॥ पश्चयोजनशत्युचं, महाध्वजविभूषितम् । पञ्चाशतं सहस्राणि, योजनानि तु विस्तृतम् ॥ ४४९ ॥ विमानमाभियोग्येन, सद्यो देवेन निर्मितम् । अधिरुह्याऽचलत् खामिजन्मोत्सवविधित्सया ॥ ४५०॥ समिप्य शक्रवन्मार्गे, विमानं चमरासुरः । जगाम मेरुशिखरं, स्वाम्यागमपवित्रितम् ॥ ४५१॥
बलिश्च बलिचञ्चाया, नगर्या असुरेश्वरः । घण्टां घोषयता तारं, प्राग् महोघखराभिधाम् ॥४५२॥ महाद्रुमेण सेनान्या, सामानिकदिवाकसाम् । षष्ट्या सहस्रराहूतैरारक्षैश्च चतुर्गुणैः ॥ ४५३ ॥ त्रायस्त्रिंशादिभिश्चापि, वृतश्चमरवत् सुरैः । जगामामन्दमानन्दमन्दिरं मन्दराचलम् ॥ ४५४ ॥
[त्रिभिर्विशेषकम् ] नागेन्द्रो धरणो मेघखराघण्टाप्रताडनात् । पत्तिसेनाधिपतिना, भद्रसेनेन बोधितैः॥४५५॥ पदसामानिकसहस्यात्मरक्षस्तच्चतुर्गुणैः । षभिश्च पट्टदेवीभिवृतोऽन्यैरपि पन्नगैः॥ ४५६ ॥ योजनानां सहस्राणि, पञ्चविंशानि विस्तृतम् । सार्द्धद्वियोजनशतीतुङ्गेन्द्रध्वजभूषितम् ॥ ४५७॥ विमानरत्नमारुह्य, भगवद्दर्शनोत्सुकः । मन्दराचलमूर्द्धानमाससाद क्षणादपि ॥ ४५८ ॥
[चतुर्भिः कलापकम् ] *त्रयास्त्रंशत्राय आ, त्रयस्त्रिंशैः पारिषद्यैश्चतु° सं 11 °न्याहूतैः सामानिकैः सुरैः आ॥ हौस्तेभ्योऽङ्गरक्षकैश्च सं १ आ॥
Jain Education Inter
I T
For Private & Personal use only
www.jainelibrary.org