SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Jain Education International नाभिसूनोः प्रतिच्छन्दं, विदधे मघवा ततः । देव्याः श्रीमरुदेवायाः, पार्श्वे तं च न्यवेशयत् ॥ ४१६ ॥ स चक्रे पञ्चधाऽऽत्मानं, पञ्चशत्रास्ततोऽभवन् । तस्यार्हा स्वामिनो भक्तिर्नैकाङ्गैः कर्तुमीश्यते ||४१७|| एकः सङ्कन्दनस्तत्र, पुरोभूय प्रणम्य च । भगवन्ननुजानीहिीत्युदित्वा श्रयाश्रितम् ॥ ४१८ ॥ गोशीर्षचन्दनात्ताभ्यां पाणिभ्यां भुवनेश्वरम् । मूर्त्तिस्थमित्र कल्याणं, कल्याणीभक्तिराददे ।। ४१९ ॥ 'जगत्तापापनोदैकातपत्रस्य जगत्पतेः । आतपत्रं दधौ मूर्द्धन्येकः शक्रस्तु पृष्ठगः ॥ ४२० ॥ स्वामिनः पार्श्वयोरन्यौ, बाहुदण्डाविव स्थितौ । विभराञ्चक्रतुश्चारुचामरे चाऽमरेश्वरौ ।। ४२१ ॥ दम्भोलिदण्डं विभ्राणो, बल्गन् द्वास्थाग्रणीरिव । अग्रेसरः शुनासीरो, बभूवाऽन्यो जगत्पतेः ।। ४२२ ॥ वृताः सुरैर्जयजयेत्येकरावीकृताम्बरैः । उत्पेतुरम्बरेणेन्द्रा, अम्बरामलचेतसः || ४२३ ॥ उत्कण्ठितानां देवानां निपेतुर्भगवत्तनौ । सुधासरस्यां तृषिताध्वगानामिव दृष्टयः ॥ ४२४ ॥ प्रभोस्तदद्भुतं रूपं द्रष्टुं प्रष्ठा दिवौकसः । पृष्ठवत्तनि नेत्राणि, कामयामासुरात्मनः ।। ४२५ ॥ अतृप्ताः स्वामिनं द्रष्टुममराः पारिपार्श्विकाः । नाशकन्नन्यतो नेतुं, नयने स्तम्भिते इव ॥ ४२६ ॥ अनुगास्तु सुरा द्रष्टुं प्रभुमग्रे यियासवः । पर्यस्यन्तो न हि निजं, मित्रस्वाम्याद्यजीगणन् ॥ ४२७ ॥ हृदयान्तरिवाऽर्हन्तं, हृदयद्वारि धारयन् । दिवौकसामधिपतिः प्राप मेरुमहीधरम् ॥ ४२८ ॥ तत्रान्तः पाण्डवनं, चूलिकां दक्षिणेन तु । अतिपाण्डुकम्बलायां, शिलायाममलत्विषि ।। ४२९ ।। सिंहासनेऽत्नात्रा, निजाङ्कस्थापितप्रभुः । सहर्षं न्यसदत् पूर्वाभिमुखः पूर्वदिक्पतिः ॥ ४३० ।। १ विनयसहितम् । २ इन्द्रः । * पावकाः खंता ॥ ३ एतदाख्यायां शिलायान् । For Private & Personal Use Only पञ्चरूपेण प्रभोरी नयनम् । www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy