SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ४५ ॥ Jain Education Internatio अष्टानामग्रदेवीनां प्राच्यामष्टासनानि तु । सदृशाकारधारीणि, सोदराणीव जज्ञिरे ॥ ३७२ ॥ दिशि दक्षिणपूर्वस्यामभ्यन्तरसभासदाम् । भद्रासनसहस्राणि द्वादशाऽऽसन् दिवौकसाम् || ३७३ ॥ आसनानि दक्षिणस्यामासन् मध्यसभासदाम् । चतुर्दशानां दिविषत्सहस्राणां क्रमेण तु ॥ ३७४ ॥ दक्षिणपश्चिमायां तु देवानां बाह्यपर्षदः । षोडशानां सहस्राणामासीदासनधोरणी ।। ३७५ ।। दिशि प्रतीच्यां सप्तानामनीकपतिनाकिनाम् । सप्तासनान्येकविम्बपतितानीव रेजिरे ॥ ३७६ ॥ चतुरशीतिः सहस्राण्यासनान्यात्मरक्षिणाम् । भानीव मेरुं परितः, शक्रं प्रतिदिशं बभ्रुः ॥ ३७७ ॥ परिपूर्णं विमानं तद्, विरचय्याऽऽभियोगिकाः । देवा विज्ञपयामासुः, स्वामिने त्रिदिवौकसाम् ॥ ३७८ ॥ पुरन्दरोऽपि तत्कालं विचक्रे रूपमुत्तरम् । नैसर्गिकी हि भवति, घुसदां कामरूपिता || ३७९ ॥ महिषीभिः सहाऽष्टाभिर्दिक्श्रीभिरिव वासवः । गन्धर्वनाट्यानीकाभ्यां दर्श्यमानकुतूहलः ॥ ३८० ॥ ततः प्रदक्षिणीकुर्वन्, पूर्वसोपानवर्त्मना । आरुरोह विमानं तन्निजं मानमिवोन्नतम् ॥ ३८१ ॥ सहस्राक्षः सहस्राङ्ग, इव माणिक्यभित्तिषु । सङ्कान्तमूर्तिरध्यास्त, प्राङ्मुखः स्वं तदासनम् ॥ ३८२ ॥ शक्ररूपान्तराणीव, शक्रसामानिकास्तथा । आरुह्योदीच्यसोपानैर्यथाऽऽसनमुपाविशन् || ३८३ || प्रविश्याऽपाच्यसोपानपङ्क्याऽन्येऽपि दिवौकसः । स्ववासनेषु न्यपदन्, स्वाम्यग्रे नाऽऽसेनात्ययः ॥ ३८४ ॥ सिंहासननिषण्णस्य, पौलोमी भर्तुरग्रतः । दर्पणप्रभृतीन्यष्टमङ्गलान्यष्ट रेजिरे || ३८५ ॥ शुशुभे शशभृत्पाण्डु, पुण्डरीकं विडौजसः । हंसाविवोपसर्पन्तौ, धूयमानौ च चामरौ ॥ ३८६ ॥ १ आसनपरावृत्तिः । २ श्वेतच्छत्रम् । For Private & Personal Use Only प्रथमं पर्व द्वितीयः सर्गः ऋषभ चरितम् । सौधर्मेन्द्रा गमनम् । ॥ ४५ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy