SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम् । ॥४४॥ सौधर्मेन्द्रागमनम्। GRUSALUSAREEKASGER द्वात्रिंशति विमानानां, लक्षेषु स समुच्छलन् । तालुनीवाऽनुरणनरूपः शब्दो व्यजृम्भत ॥ ३४४ ॥ देवाः प्रमत्तव्यासक्तास्तेन शब्देन मूर्च्छता । किमेतदिति सम्भ्रान्ताश्चक्रिरे सावधानताम् ॥३४५॥ उद्दिश्य तानवहितान् , सेनानीः सोऽथ वज्रिणः । वचसा मेघनिर्घोषगम्भीरेणाऽभ्यधादिति ॥ ३४६ ॥ भो भो देवाः ! समस्तान् वः, सदेव्यादिपरिच्छदान् । इत्यादिशत्यनुल्लयशासनः पाकशासनः ॥३४७॥ जम्बूद्वीपस्थभरतदक्षिणार्द्धस्य मध्यतः । नामे कुले कुलकृतो, जज्ञे प्रथमतीर्थकृत् ॥ ३४८॥ तत्र तजन्मकल्याणमहोत्सवविधित्सया । गन्तुं त्वरध्वमस्मद्वत् , कृत्यं नाऽतः परं परम् ॥ ३४९ ॥ प्रत्यहन्तं रागतः केऽप्यभिवातमिवैणकाः । केपि शक्राज्ञयाऽऽकृष्टा, अयस्कान्तेन लोहवत् ॥ ३५० ॥ दारैरुल्लासिताः केपि, यादांसीव नदीरयैः । केचित् सुहृद्भिराकृष्टा, गन्धा गन्धवहैरिव ॥ ३५१॥ एयुर्विमानै रुचिरैर्वाहनैरपरैरपि । द्यामन्यामिव कुर्वाणा, गीर्वाणाः शक्रसन्निधौ ॥ ३५२ ॥ . [त्रिभिर्विशेषकम् ] आदिशत् पालकं नाम, वासवोऽप्याभियोगिकम् । असम्भाव्यप्रतिमानं, विमानं क्रियतामिति ॥३५३।। तत्कालं पालकोऽपीशनिदेशपरिपालकः । रत्नस्तम्भसहस्रांशुपूरपल्लविताम्बरम् ॥ ३५४ ॥ गवाक्षरक्षिमदिव, दीपोष्मदिव ध्वजैः । वेदीभिर्दन्तुरमिव, कुम्भैः पुलकभागिव ॥ ३५५ ॥ पञ्चयोजनशत्युच्चं, विस्तारे लक्षयोजनम् । इच्छानुमानगमनं, विमानं पालकं व्यधात् ॥ ३५६॥ [त्रिभिर्विशेषकम् ] . * मूञ्छिताः सं १, २, आ॥ : सावधानान् । २ लोहचुम्बकेन । ३ जलजन्तयः । ॥४४॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy