________________
Jain Education Inte
जानूत्तमाङ्गकमलसंस्पृष्टपृथिवीतलः । नत्वा रोमाञ्चितोऽर्हन्तमिति स्तोतुं प्रचक्रमे ।। ३२९ ॥ तुभ्यं नमस्तीर्थनाथ !, सनाथीकृतविष्टप ! | कृपारससरिनाथ !, नाथ ! श्रीनाभिनन्दन ! ॥ ३३० ॥ मत्यादिभिस्त्रिभिर्ज्ञानैः सहोत्थैर्नाथ ! शोभसे । नन्दनादिभिरुद्यानैरिव मेरुमहीधरः ॥ ३३१ ॥ देवेदं भारतं वर्ष, दिवोऽप्यद्याऽतिरिच्यते । त्रैलोक्यमौलिरत्लेन, यदलङ्कियते त्वया ॥ ३३२ ॥ असौ त्वजन्मकल्याणमहोत्सवपवित्रितः । आसंसारं जगन्नाथ !, वन्द्यस्त्वमिव वासरः ॥ ३३३ ॥ नारकाणामपि सुखं, जज्ञे त्वज्जन्मपर्वणा । अर्हतामुदयः केषां न स्यात् सन्तापहारकः ? ।। ३३४ ॥ जम्बूद्वीपस्य भरतक्षेत्रे नष्टो निधानवत् । त्वदाज्ञावीजकेनाऽतः परं धर्मः प्रकाशताम् ॥ ३३५ ॥ त्वत्पादौ प्राप्य संसारं, तरिष्यन्ति न केऽधुना ? । अयोऽपि यानपात्रस्थं, पारं प्राप्नोति वारिधेः ||३३६ || कल्पवृक्ष इवाऽवृक्षे, नदीस्रोतो मराविव । भगवन्नवतीर्णोऽसि, लोकपुण्येन भारते ॥ ३३७ ॥
भगवन्तमिति स्तुत्वा, प्रथमस्वर्गनायकः । पदात्यनीकाधिपतिं नैगमेषिणमादिशत् ॥ ३३८ ॥ जम्बूद्वीपस्थ भरतदक्षिणार्द्धस्य मध्यमे । भूमिभागे कुलभृतो, नाभेः पत्न्याः श्रियांनिंधेः ॥ ३३९ ॥ नन्दनो मरुदेवाया, जज्ञे प्रथमतीर्थकृत् । आहूयन्तां सुराः सर्वे, तज्जन्मस्त्रात्रहेतवे ॥ ३४० ॥
ततश्च योजनपरिमण्डलामद्भुतखनाम् । स त्रिरुल्लालयन् घण्टां सुघोषाख्यामवादयत् ॥ ३४१ ॥ सर्वापरविमानानां नेदुर्घण्टाः सुघोषया । समं मुखरगायन्या, गायन्य इव पक्षगाः ॥ ३४२ ॥ घण्टानां निखनस्तासां दिङ्मुखोत्थैः प्रतिखनैः । सूनुभिः स्वप्रतिच्छन्दैः सतां कुलमिवाऽवृधत् ॥ ३४३ || * द्वीपीयभ° खंता, द्वीपस्य भ° सं १, आ ॥ + निधिः खंता, आ ॥ १ अग्रसरगायक्या ।
For Private & Personal Use Only
www.jainelibrary.org