________________
त्रिषष्टि
प्रथमं पर्व
शलाकापुरुषचरिते
द्वितीय:
सर्गः ऋषभ| चरितम् ।
॥४३॥
रक्षापोट्टलिका वह्निभसना तेन ता व्यधुः । तयोर्महामहिम्नोरप्यासा भक्तिक्रमः स हि ॥३१५॥ पर्वतायुभवेत्युच्चैरुक्त्वा कर्णान्तिके विभोः । ताः समास्फालयामासुर्मिथः पाषाणगोलकौ ॥३१६ ॥ मतिकाभवने तस्मिन् , मरुदेवां विभुं च ताः । शय्यागतौ विधायाऽस्थुर्गायन्त्यो मङ्गलान्यथ ॥३१७॥
तदा शाश्वतघण्टानां, स्वर्गेषु युगपद् ध्वनिः । बभूव लग्नवेलायामातोद्यानामिवोच्चकैः ॥ ३१८॥ वासवानामासनानि, शैलमूलाचलान्यपि । चकम्पिरे तदानीं च, हृदयानि च सम्भ्रमात् ॥ ३१९ ॥ ततश्च सौधर्मपतिः, कोपाटोपारुणेक्षणः । ललाटपट्टघटितभ्रकुटीविकटाननः ॥ ३२० ॥ अधरं स्फोरयन्नन्तः, क्रोधवः शिखामिव । उच्छ्रसन्नङ्गिणैकेन, स्थिरीकर्तुमिवाऽऽसनम् ॥ ३२१ ॥ कस्योत्क्षिप्तं कृतान्तेन, पत्रमद्येति विब्रुवन् । आदित्सते स्म दम्भोलिं, स्वशौण्डीर्यानलानिलम् ॥ ३२२॥
[त्रिभिर्विशेषकम् ] एवं पुरन्दरं प्रेक्ष्य, क्रुद्धकेसरिसोदरम् । मृत्तॊ मान इवाऽनीकपतिर्नत्वा व्यजिज्ञपत् ॥ ३२३ ॥ किमावेशः स्वयं स्वामिन् !, पदातौ मयि सत्यपि । समादिश जगन्नाथ!, कं मनामि तव द्विषम् ॥३२४॥ ततो मनःसमाधानमाधाय विबुधाधिपः । प्रयुज्याऽवधिमज्ञासीजन्माऽऽदिमजिनप्रभोः ॥३२५॥ मुदा विगलितक्रोधसंवेगस्तत्क्षणादभृत् । शान्तदावानलो वृष्ट्या, सानुमानिव वासवः ॥ ३२६ ॥ धिग् मया चिन्तितमिदं, मिथ्यादुष्कृतमस्तु मे । इति ब्रुवाणो गीर्वाणाग्रणीः सिंहासनं जहौ ॥ ३२७ ॥ गत्वा पदानि सप्ताऽष्टान्युत्तमाङ्गे निधाय च । द्वितीयरत्नमुकुटश्रीविश्राणकमञ्जलिम् ॥ ३२८ ॥ १ वज्रम् । २ इन्द्रम् ।
सौधर्मेन्द्रागमनम्।
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org.