________________
दिक्कुमारीविहित ऋषभजिनजन्मोरसवः ।
HOMEMOISSESSIOSANSAR
नत्वा जिनं जिनाम्बां च, विज्ञपय्य तथैव हि । गायन्त्योऽस्थुर्दीपहस्ता, ईशानादिविदिक्षु ताः॥३०॥ रुचकद्वीपतोऽप्येयुश्चतस्रो दिकुमारिकाः । रूपा रूपाशिका चाऽपि, सुरूपा रूपकावती ॥३०१॥ चतुरङ्गलवर्ज ता, नाभिनालं जगत्पतेः । न्यकृन्तन् विदरं चख्नुस्तं च तत्र निचिक्षिपुः ॥ ३०२॥ विदरं पूरयामासुर्वत्रै रनैश्च मङ्गु ताः । दूर्वया पीठिकाबन्धं, तस्योपरि च चक्रिरे ।। ३०३ ॥ जिनजन्मगृहात पूर्वदक्षिणोत्तरदिक्षु च । विचक्रुस्त्रीणि कदलीगृहाणि श्रीगृहाणि ताः ॥३०४॥ प्रत्येकमेषां मध्ये च, ताः सिंहासनभूषितम् । विचक्रिरे चतुःशालं, विशालं स्वविमानवत् ।। ३०५॥ ता दक्षिणचतुःशाले, जिनं न्यस्य कराञ्जलौ । निन्युस्तन्मातरं चाऽऽप्सचेटीवद् दत्तबाहवः ॥ ३०६ ॥ सिंहासने निवेश्योभावभ्यानक्षुः सुगन्धिना । ता लक्षपाकतैलेन, जरत्संवाहिका इव ।। ३०७ ॥ अमन्दामोदनिःस्यन्दप्रमोदितदिशा भृशम् । उभावुद्वर्त्तयामासुर्दिव्येनोद्वर्त्तनेन ताः ॥३०८॥ नीत्वा ताः प्राक्चतुःशाले, न्यस्य सिंहासने च तौ । नपयामासुरम्भोभिः, खमनोभिरिवाऽमलैः॥३०९॥ गन्धकाषायवासोभिस्तदङ्गान्यमृजन्नथ । गोशीर्षचन्दनरसैश्चर्चयामासुराशु ताः ॥३१॥ ताभ्यामामोचयामासुर्देवदूष्ये च वाससी । विद्युद्योतसध्यञ्चि, ताश्चित्राभरणानि च ॥३११ ॥ अथोत्तरचतुःशाले, नीत्वा सिंहासनोपरि । न्यषादयन् भगवन्तं, भगवन्मातरं च ताः ॥३१२ ॥ गोशीर्षचन्दनैधांसि, द्राक् क्षुद्रहिमवगिरेः । ताः समानाययामासुरमरैराभियोगिकैः ॥३१३ ॥ उत्पाद्याऽरणिदारुभ्यां, वह्निमह्नाय तास्ततः । होमं वितेनुर्गाशीर्षचन्दनैरेधसात्कृतैः ॥ ३१४ ॥ * विवरं सं १, खं ॥ + विवरं सं १, खं ॥ । विद्युत्प्रकाशसमानानि ।
निषष्टि, ८
Jain Education Internatione
For Private & Personal use only
www.iainelibrary.org