SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि प्रथमं पर्व शलाकापुरुषचरिते | द्वितीयः सर्गः ऋषभचरितम् । ॥४२॥ वसुन्धरां वितन्वानां, नानालेख्यमयीमिव । जानुदनीं पञ्चवर्णैः, पुष्पवृष्टिं वितेनिरे ॥ २८५ ॥ तथैव तीर्थनाथस्य, गायन्त्यो निर्मलान् गुणान् । हर्षप्रकर्षशालिन्यः, स्थाने तस्थुर्यथोचिते ॥ २८६ ॥ दिकुमार्योऽष्ट पौरस्त्यरुचकाद्रिस्थिता अपि । विमानैर्मनसा साई, स्पर्द्धमानैरिवाऽऽययुः॥ २८७॥ ताश्च नन्दोत्तरानन्दे, आनन्दानन्दिवर्द्धने । विजया वैजयन्ती च, जयन्ती चाऽपराजिता ॥ खामिनं मरुदेवां च, नत्वाऽऽख्याय च पूर्ववत् । गायन्त्यो मङ्गलान्यस्थुस्ताः प्राग्दर्पणपाणयः ॥२८९॥ अपाच्यरुचकाद्रिस्थास्तावन्त्यो दिक्कुमारिकाः । तत्राऽऽययुः प्रमोदेन, प्रतोदेनेव नोदिताः ॥२९॥ समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ॥२९१॥ जिननाथं तदम्बां च, नत्वा प्राग्वनिगद्य च । भृङ्गारपाणयस्तस्थुर्गायन्त्यो दक्षिणेन ताः ॥ २९२॥ प्रत्यग्रुचकशैलस्था, अप्यष्टौ दिक्कुमारिकाः। आययुस्त्वरयाऽन्योऽन्यमिव भक्त्या जिगीषवः ॥२९३॥ इलादेवी मुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीतेति नामतः ॥२९४॥ नत्वा जिनं जिनाम्बां च, विज्ञपय्य च पूर्ववत् । तस्थुर्व्यजनहस्तास्ता, गायन्त्यः पश्चिमेन तु ॥ २९५॥ उदग्रुचकतोऽप्येयुर्दिकुमार्योऽष्ट वेगतः । वातैरिव रथीभूतैरमरैराभियोगिकैः ॥ २९६ ॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी। हासा सर्वप्रभा चैव, श्री हीरित्यभिधानतः।।२९७॥ नत्वा जिनं तदम्बां च, कृत्यं चाऽऽख्याय पूर्ववत् । गायन्त्य उत्तरेणाऽस्थुस्तास्तु चामरपाणयः ॥२९८॥ एयुर्विदिग्भचकाद्रेश्चतस्रो दिक्कुमारिकाः। चित्रा चित्रकनका सतेरा सौत्रामणी तथा ॥ २९९ ॥ १ जानुप्रमाणाम् । * "युः प्रयत्नेन, प्रमोदेनैव चालिताः सं 1॥ दिक्कुमारीविहित ऋषभजिनजन्मोत्सवः। ॥४२॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy