SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ उपभूमि प्रसर्पद्भिर्मन्दं मन्दं समीरणैः । रजोऽपनिन्ये मेदिन्याः , परिचर्याकरैरिव ॥ २७१ ॥ चेलक्षेपं च गन्धाम्बु, ववृषे स्तनयिबुभिः । सिक्तबीजवदुच्छासमाससाद च मेदिनी ॥ २७२ ॥ अथाऽधोलोकवासिन्यः, सद्यः प्रचलितासनाः । दिकमार्यः समाजग्मुरष्टौ तत्सूतिवेश्मनि ॥ २७३॥ भोगरा भोगवती, सुभोगा भोगमालिनी।तोयधारा विचित्राच,पुष्पमाला त्वनिन्दिता॥ तत्राऽऽदिमं तीर्थकरं, तीर्थकृन्मातरं च ताम् । तास्त्रिः प्रदक्षिणीकृत्य, वन्दित्वा चैवमृचिरे ॥ २७५॥ नमस्तुभ्यं जगन्मातर्जगद्दीपप्रदायिके! । अष्टौ वयमधोलोकवासिन्यो दिक्कुमारिकाः ॥ २७६ ॥ अवधिज्ञानतो ज्ञात्वा, तीर्थकृजन्म पावनम् । तन्महिम्नः करणार्थ, तत्प्रभावादिहाऽऽगताः॥ २७७॥ तन्न भेतव्यमित्युक्त्वा, 'देशे पूर्वोत्तरे स्थिताः । चक्रुः स्तम्भसहस्राङ्क, प्रामुखं सूतिकागृहम् ॥ २७८ ॥ ताच संवर्त्तवातेन, परितः सूतिकागृहम् । आयोजनमपाहार्युः, शर्कराकण्टकादिकम् ।। २७९ ॥ संवर्त्तवातं संहृत्य, भगवन्तं प्रणम्य च । तदासन्ननिषण्णास्तास्तं गायन्त्योऽवतस्थिरे ॥२८॥ तथैवाऽऽसनकम्पेन, ज्ञात्वा मेरुगिरिस्थिताः । ऊर्द्धलोकनिवासिन्योऽप्यष्टेयुर्दिकुमारिकाः ॥ २८१॥ मेघङ्करा मेघवती, सुमेघा मेघमालिनी। सुवत्सा वत्समित्रा च, वारिषेणा बलाहिका ॥२८२ ॥ जिनं जिनजननीं च, नत्वा नुत्वा तथैव ताः । नर्भस्यवनभस्यभ्रपटलं द्राग् विचक्रिरे ॥ २८३ ॥ ताभिः सुगन्धितोयेनाऽऽयोजनं वेश्मपार्श्वतः । समन्ततो रजोऽशामि, कौमुद्येव तमस्ततिः ॥ २८४ ॥ मेधैः। * अथ मेरुरुचकाधोलोकस्थाश्चलि खंता ॥ सुबत्सा वत्समित्रा च, पु. खंता, आ॥ देशे|ऽथोत्तरपश्चिमे खंता ॥ तोयधारा विचित्रा च वारि खंता, आ ॥ २ भाद्रपदमासवत् । Jain Education International SIL For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy