SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते द्वितीयः सर्गः ॥४१॥ ऋषभचरितम्। ऋषभप्रभो मन्दा सहजभावेनाऽप्यस्था मन्दतराऽभवत् । गतिर्मतङ्गजस्येव, मदावस्थामुपेयुषः ॥ २५६ ॥ तस्यास्तदानीं ववृधे, लावण्यश्रीविशेषतः । प्रज्ञेवोषसि विदुषो, ग्रीष्मे वेलेव वारिधेः॥ २५७॥ त्रैलोक्यैकमहासारं, सा गर्भ धारयत्यपि । नाखिद्यत प्रभावोऽयमहतां गर्भवासिनाम् ॥ २५८ ॥ उदरे मरुदेवायाः, शनकैः शनकैस्ततः । निगूढं ववृधे गर्भः, कन्दोऽन्तरवनेरिव ॥ २५९ ॥ स्वामिन्यभृत् तत्प्रभावाद्, विशेषाद् विश्ववत्सला । शीतमप्यम्बु शीतं स्यात्, क्षिप्तया हिममृत्स्नया ॥२६॥ गर्भावतीर्णभगवत्प्रभावान्नाभिरप्यभृत् । पितृतोऽप्यधिकं मान्यः, सर्वेषां युग्मधर्मिणाम् ।। २६१॥ तत्प्रभावाद् विशिष्टानुभावाः कल्पद्रवोऽभवन् । शरत्कालवशादिन्दुकरा स्युरधिकश्रियः ।। २६२॥ तत्प्रभावाच्छान्ततिर्यग्नृवैरा भूरभूच्च सा । सर्वतोऽपि हि शाम्यन्ति, सन्तापाः प्रावृडागमात् ॥ २६३॥ ततो नवसु मासेषु, दिनेष्वर्द्धाष्टमेषु च । गतेषु चैत्रबहुलाष्टम्याम निशाक्षणे ॥ २६४ ॥ उच्चस्थेषु ग्रहेष्विन्दावुत्तराषाढया युते । सुखेन सुषुवे देवी, पुत्रं युगलधर्मिणम् ॥ २६५॥ दिशः प्रसादमासेदुस्तदानीं सम्मदादिव । लोकः क्रीडापरो जज्ञे, धुवासीव महामुदा ॥ २६६ ॥ जरायुरक्तप्रभृतिकलङ्कपरिवर्जितः । उपपादशय्योद्भूत, इव देवो रराज सः ॥ २६७ ॥ तदा कृतजगन्नेत्रचमत्कारोऽन्धकारभित् । बभूव विधुदुयोत, इवोझोतो जगत्रये ॥ २६८॥ किङ्करानाहतोऽप्युच्चैर्मेघगम्भीरनिस्वनः । स्वयं द्यौरिव हर्षेण, ननाद दिवि दुन्दुभिः॥२६९ ॥ अप्राप्तपूर्विणां सौख्यं, नारकाणामपि क्षणम् । समजायत तिर्यग-नृ-सुराणां किं पुनस्तदा ? ॥२७॥ २ मृत्तिकया।२ चैत्रकृष्णाष्टम्याम् । * उत्तराषाढया युक्ते, चन्द्रे चन्द्रमिवेन्द्रदिक् सं २, आ ॥ ३ देव इव । जन्म। 05 OSHOROSAROKASSACREAK ॥४१॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy