________________
आलुलोके त्वया खने, यच्च देवि! महाध्वजः। महावंशप्रतिष्ठः स्यात, तत् ते धर्मध्वजोङ्गजः ॥२४१॥ यच्च स्वमे पूर्णकुम्भो, भवत्याऽऽलोकि देवि! तत् । सूनुः समग्रातिशयपूर्णपात्रं भविष्यति ॥ २४२ ॥ यच्च पदसरो दृष्टं, तत् स्वामिनि! तवाऽऽत्मजः । तापं संसारकान्तारपतितानां हरिष्यति ॥ २४३ ॥ सरित्पतिर्यदालोकि, भवत्या तनयस्तव । अधृष्यवाभिगम्यश्च, तदवश्यं भविष्यति ॥ २४४ ॥ विमानं देवि! यद् दृष्टं, भवत्या भुवनाद्भुतम् । वैमानिकैरपि सुरैस्तत् ते सेविष्यते सुतः॥ २४५॥ रत्नपुखः स्फुरत्कान्तिरीक्षामासे च यत् त्वया । तत्सर्वगुणरत्नानामाकरः स्यात् तवाऽऽत्मजः ॥२४६॥ यज्वलज्ज्वलनो दृष्टो, वक्रमध्ये विशंस्त्वया । अन्यतेजस्विनां तेजस्तदपास्यति से सुतः ॥२४७॥ चतुर्दशभिरप्येतैः, स्वमैः स्वामिनि ! सूच्यते । चतुर्दशरज्जुदने, लोके खामी तवाऽऽत्मजः ॥२४८॥ इति स्वमार्थमाख्याय, मरुदेवीं प्रणम्य च । क्षणानि निजस्थानान्यगमनमरेश्वराः ॥ २४९ ॥
स्वामिन्यपीन्द्रैः स्वमार्थव्याख्यानसुधयोक्षिता | वसुधेवाऽम्बुदैरद्भिः, संसिक्ता समुदश्वसत् ॥ २५०॥ सा तेनाऽशोभि गर्भेण, मेघमालेव भानुना । शुक्तिर्मुक्ताफलेनेव, सिंहेनेवाद्रिकन्दरा ॥२५१॥ प्रियकुश्यामवर्णाऽपि, मरुदेवा निसर्गतः । शरदा मेघमालेव, गर्भेण प्राप पाण्डुताम् ॥ २५२ ॥ तस्या अभूतां वक्षोजौ, विशेषात् पीवरोमतौ । स्तन्यपो नौ जगत्स्वामी, भावीतीव प्रमोदप्तः ॥ २५३ ॥ तस्या विशेषतोऽभूतां, सविकाशे विलोचने । भगवद्वदनं द्रष्टुं, दूरमुत्कण्ठिते इव ॥ २५४ ॥ नितम्बभित्तिः खामिन्या, वैपुल्यं विपुलापि हि । भेजे वर्षात्यये निम्नगायाः पुलिनभृरिव ॥ २५५ ॥ * यहेवि ! ज्वलनो ह° सं॥ चतुर्दशरजुप्रमाणे । + 'जस्थानान्यगमन् सर्वेऽपि सुरेश्वराः सं ॥
Jain Education International
For Private & Personal use only