SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि | प्रथम पर्व द्वितीया शलाकापुरुषचरिते सर्गः ॥४०॥ ऋषभचरितम् । SANSHORS कुतोऽप्येकत्र मिलितस्तारकाणामिवोत्करः । रत्नपुञ्जो महान् व्योम्नि, पुञ्जीभृतामलद्युतिः ॥ २२५ ॥ तेजस्विनां पदार्थानां, त्रैलोक्योदरवर्त्तिनाम् । सम्पिण्डितं तेज इव, निर्धूमोऽग्निर्मुखेऽविशत् ॥ २२६॥ निशाविरामसमये, स्वामिनी मरुदेव्यपि । स्वमान्ते सयमानास्था, पमिनीव व्यबुध्यत ॥ २२७ ॥ असम्मान्तीं मुदमिवोद्गिरन्ती कोमलाक्षरैः । स्वमानकथयद् देवी, तांस्तथैवाऽऽशु नाभये ॥ २२८ ॥ उत्तमस्ते कुलकरस्तनयो भवितेत्यथ । स्वार्जवस्याऽनुसारेण, नाभिः स्वमान् व्यचारयत् ।। २२९ ॥ स्वामिनः कुलकृन्मात्रसम्भावनमसाम्प्रतम् । इति कोपादिवेन्द्राणामकम्पन्ताऽऽसनान्यथ ॥ २३०॥ किमित्यकस्मादस्माकमासनानां प्रकम्पनम् ? । इति दत्त्वोपयोगं तद्, विदाञ्चक्रुर्बिडौजसः ॥ २३१॥ तत्कालं भगवन्मातुः, स्वमार्थमभिशंसितुम् । सुहृदः कृतसङ्केता, इवेन्द्रास्तुल्यमाययुः ॥ २३२॥ ततस्ते विनयान्मूर्भि, घटिताञ्जलिकुमलाः । स्वप्नार्थ स्फुटयामासुः, सूत्रं वृत्तिकृतो यथा ॥ २३३ ॥ भावी खामिनि ! पुत्रस्ते, स्वमे वृषभदर्शनात् । मोहपङ्कममधर्मस्यन्दनोद्धरणक्षमः ॥२३४ ॥ हस्तिदर्शनतो देवि !, तव सूनुर्भविष्यति । गरीयसामपि गुरुमहास्थामैकधाम च ॥ २३५ ॥ भावी पुरुषसिंहस्ते, तनयः सिंहदर्शनात् । धीरः सर्वत्र निर्भीकः, शूरोऽस्खलितविक्रमः ॥ २३६ ॥ यच्च श्रीर्ददृशे तत्र, तनयः पुरुषोत्तमः । देवि ! त्रैलोक्यसाम्राज्यलक्ष्मीनाथो भविष्यति ॥ २३७ ॥ स्वमे खग्दर्शनात् पुण्यदर्शने! स्यात् तवाऽऽत्मजः । सर्वस्य जगतः स्रग्वच्छिरसोद्वाह्यशासनः ॥ २३८ ॥ जगन्मातस्त्वया यच्च, स्वप्ने पूर्णेन्दुर्रक्ष्यत । तन्नेत्रानन्दनः कान्तो, नन्दनस्ते भविष्यति ॥ २३९ ॥ ईक्षाञ्चके रविर्यच्च, तत्सूनुस्ते भविष्यति । मोहान्धकारविध्वंसाजगदुद्योतकारकः ॥२४॥ ६ इन्दैश्चतुर्दश महास्वमफल कथनम्। ॥४०॥ Jain Education Internat For Priate & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy