SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मरुदेवायाचतुर्दशमहास्वमदर्शनम्। श्रीनाभिपल्या उदरे, मरुदेव्या अवातरत् । मानसात् सरसो हंस, इव मन्दाकिनीतटे ॥ २१॥ तदा स्वामिन्यवतीणे, त्रैलोक्येऽपि शरीरिणाम् । दुःखच्छेदात् क्षणं सौख्यमुझ्योतश्च महानभृत् ॥२११॥ तत्राऽवतरयामिन्यां, वासागारे प्रसुप्तया । मरुदेव्या ददृशिरे, महास्वमाश्चतुर्दश ॥ २१२॥ आदौ वृषः सितः पीनस्कन्धो दीर्घर्जुवालधिः । सवर्णकिङ्किणीमालः, शरन्मेघ इवोत्तडित् ॥२१३॥ दन्तिराजश्चतुर्दन्तः, श्वेतवर्णः क्रमोन्नतः। क्षरन्मदनदीरम्यः, कैलास इव जङ्गमः ॥ २१४ ॥ पिङ्गाक्षो दीर्घरसनः, केसरी लोलकेसरः । पताकामिव शूरेषु, तन्वन्नुत्पुच्छनच्छलात् ।। २१५ ॥ देवी च पद्मनिलया, पद्मसदृग्विलोचना । दिकुञ्जरकरोत्क्षिप्तपूर्णकुम्भोपशोभिता ॥ २१६ ॥ नानाविधामरतरुप्रसूनपरिगुम्फितम् । दाम प्रलम्बधन्वेव, ऋजुरोहितधन्वनः ॥ २१७ ॥ निजाननप्रतिच्छन्दमिवाऽऽनन्दनिबन्धनम् । कान्तिपूरद्योतिताशामण्डलं चन्द्रमण्डलम् ॥ २१८ ॥ निशायामपि तत्कालं, वासरभ्रमकारकः । सर्वान्धकारच्छिदुरः, स्फुरद्युतिरहपतिः॥२१९ ॥ 'किङ्किणीमालभारिण्या, प्रचलन्त्या पताकया । करीव कर्णतालेन, राजमानो महाँध्वजः॥२२०॥ अम्भ कुम्भः शातकौम्भः, सेराम्भोजार्चिताननः । अम्भोधिमथनोद्गच्छत्सुधाकुम्भसहोदरः ॥२२१॥ स्तोतुं तमाद्यमर्हन्तं, पद्मभृङ्गनिनादिभिः । अनेकवदनीभूत, इव पीकरो महान् ॥ २२२ ॥ भुव्यास्तीर्णशरन्मेघमालालीलामलिम्लुचैः । उद्वीचिनिचयैश्चेतोऽभिरामः क्षीरनीरधिः॥२२३॥ यत्रोषितोऽभृद् भगवान् , देवत्वे तदिवाऽऽगतम् । इहापि पूर्वस्नेहेन, विमानममितद्युति ॥ २२४ ॥ 1 लम्बसरलपुच्छः। *णकिङ्कणीमा खंता, सं २॥ २ आरूढधन्वनः। ३ सूर्यः । । किङ्कणी सं २॥ AUXHAUSES OSASAUGAUS ROG Jain Education Internator For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy