________________
प्रथमं पर्व
त्रिषष्टिशलाका
पुरुषचरिते
द्वितीयः सर्गः ऋषभचरितम् ।
॥३९॥
ततश्च पश्चिमे काले, किञ्चिदनायुषी खतः । चक्षुष्कान्तापि सुषुवे, स्त्रीपुंसौ युग्मरूपिणौ ॥ १९५॥ तो तु पञ्चाशदधिकपञ्चधन्वशतोच्छ्यौ । सहैव प्रापतुवृद्धि, वृक्षच्छाये इव क्रमात् ॥ १९६॥ मरुदेव इति मनुः, श्रीकान्तेति च नन्दना । तौ युग्मधर्मिणौ लोके, नाम्ना ख्यातिमुपेयतुः॥१९७॥g प्रियङ्गुवर्णया पत्न्या, मरुदेवः सुवर्णरुक् । शुशुभे नन्दनतरुश्रेण्येव कनकाचलः ॥ १९८ ॥ ततो द्वीपकुमारेषु, जज्ञे मृत्वा प्रसेनजित् । चक्षुष्कान्ता पुनर्नागकुमारेषु तदैव हि ॥ १९९ ॥ . नीतिक्रमेण तेनैव, सर्वान् युगलधर्मिणः । मरुदेवस्ततो देवान् , देवराज इवाऽन्वशात ॥ २०॥ श्रीकान्तायाः प्रान्तकालेज्जायेतां युग्मधर्मिणौ । नाभिश्च मरुदेवा च, स्त्रीपुंसावभिधानतः ॥ २०१॥ पञ्चविंशत्यभ्यधिकपश्चधन्वशतोच्छ्यौ । सहैव प्रापतुर्वृद्धिं, तो क्षमासंयमाविव ॥२०२॥ मरुदेवा प्रियङ्गश्री भिर्जाम्बूनदद्युतिः । पित्रोः सावर्ण्यतोऽभातां, तत्प्रतिच्छन्दकाविव ॥ २०३ ॥ सङ्ख्यातपूर्वप्रमितं, तयोरायुर्महात्मनोः । श्रीकान्तामरुदेवाभ्यां, मनागूनमभूत किल ।। २०४॥ विपद्य मरुदेवोऽथ, प्राप द्वीपकुमारताम् । श्रीकान्ताऽपि हि तत्कालमेव नागकुमारताम् ॥२०५॥ सप्तमोऽभूत् कुलकरो, नाभिस्तदनु युग्मिनाम् । तिसृभिनीतिभिस्तांश्च, यथावत् प्रशशास सः ॥२०६॥
तदा तृतीयारशेषे, पूर्वलक्षेषु सङ्ख्यया । चतुरशीतो सनवाशीतिपक्षेषु सखिह ॥ २०७॥ आषाढमासस्य पक्षे, प्रवृत्ते धवलेतरे । चतुर्थ्यामुत्तराषाढानक्षत्रस्थे निशाकरे ॥ २०८ ॥ प्रपाल्याऽऽयुस्त्रयस्त्रिंशत्सागरोपमसम्मितम् । जीवः श्रीवज्रनाभस्य, च्युत्वा सर्वार्थसिद्धितः॥२०९ ॥ १ इन्द्रः । २ तत्प्रतिबिम्बभूतौ।
कुलकराणामुत्पत्तिः, मरुदेवायाः कुक्षौ प्रभोरवतरणं च।
॥३९॥
Jan Education Internationell
For Private & Personal use only
www.jainelibrary.org