SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ UCAUSANSLUSSESSMSSAGAR यशखिनः सुरूपायाश्चाऽसम्पूर्णायुषोर्मनाक् । स्त्रीपुंसौ समजायेतां, सह धीविनयाविव ॥ १८॥ ताभ्यां चन्द्रोज्वलः पुत्रोऽभिचन्द्र इति कीर्तितः । प्रियङ्गुप्रतिरूपा तु, प्रतिरूपेति पुत्र्यपि ॥ १८१॥12 पितृतोऽल्पायुपौ सार्द्धषदकार्मुकशतोच्छ्यौ । शम्यश्वत्थाविव युती, क्रमाद् वृद्धिमुपेयतुः ॥१८२॥ सदैव शुशुभाते तौ, यथा मिलितवारिणौ । मन्दाकिनी-यमुनयोः, प्रवाहाविव पावनौ ॥ १८३॥ पूर्णायुष्को यशखी चाऽब्धिकुमारेष्वजायत । सुरूपाऽप्यभवन्नागकुमारेषु तदैव तु ॥ १८४॥ पितेव चाभिचन्द्रोणपि,सर्वान् युगलधर्मिणः। स्थित्या तयैव नीतिभ्यां,ताभ्यामेवाशिषच्चिरम्॥१८५॥ ततो बहुलभूतेष्टाशर्वर्येव निशाकरः । प्रान्तकाले मिथुनकं, सुषुवे प्रतिरूपया ॥ १८६ ॥ सूनोः प्रसेनजिदिति, पितृभ्यां नाम निर्ममे । चक्षुष्कान्तेति पुत्र्याच, कान्तेयं चक्षुषामिति ॥१८७॥ न्यूनायुषी पितृभ्यां च, तमालश्यामलत्विषो । सहितौ ववृधाते तो, मुद्दुत्साहाविव क्रमात् ॥ १८८॥ पद्कार्मुकशतोत्सेधं, धारयन्तावुभावपि । विषुवद् वासरनिशे, इवाऽभूतां समप्रमौ ॥ १८९ ॥ मृत्वाभिचन्द्रोऽप्युदधिकुमारेदपद्यत । प्रतिरूपा पुनर्नागकुमारेषु तदैव हि ॥ १९॥ बभूव युग्मिनां नाथस्तथैवाऽथ प्रसेनजित् । प्रायो महात्मनां पुत्राः, स्युर्महात्मान एव हि ॥१९१॥ हाकारनीति माकारनीतिं च व्यत्यलङ्घयन् । तदा युग्मानि कामार्ता, हीमोंदे इव क्रमात् ॥ १९२॥ अनाचारमहाभूतत्रासमत्राक्षरोपमाम् । धिक्कारनीतिमपरामकृताऽथ प्रसेनजित् ॥ १९३॥ नीतिभिस्तिसृभिस्ताभिः, स प्रयोगविचक्षणः । शशास सकलं लोकं, यतैत्रिभिरिव द्विपम् ॥ १९४॥ * श्रीवि सं १ शमीपिप्पलवृक्षौ । २ कृष्णचतुर्दशीराव्येव । ३ हषोत्साहौ। समप्रभौ सं १ मा । Jan Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy