________________
त्रिषष्टि
शलाकापुरुषचरिते ॥३८॥
प्रथमं पर्व द्वितीयः
सर्गः ऋषभचरितम् ।
कुलकराणामुत्पत्तिः।
तस्याऽऽयुरवशेषे तु, वर्षार्द्धप्रमिते सति । भार्यायां चन्द्रयशसि, मिथुनं समजायत ॥ १६५॥ तौ स्त्रीपुंसावसंख्येयपूर्वायुष्की सुसंस्थिती । आद्यसंहननौ श्यामावष्टधन्वशतोच्छ्यौ ॥१६६ ॥ चक्षुष्मांश्चन्द्रकान्ता च, पितृभ्यां कल्पिताऽभिधी । ववृधाते सहोद्भूतौ, लताविटपिनाविव ॥१६७॥ प्रपाल्य युग्मं पण्मासान् , जरारोगौ विना मृतः । सुपर्णककुमारेषत्पेदे विमलवाहनः ॥ १६८॥ तदेव च चन्द्रयशा, मृत्वा नागेष्वजायत । अस्तमीयुषि पीयूषकरे तिष्ठेन्न चन्द्रिका ॥ १६९ ॥ आत्मीयं पालयित्वाऽऽयुस्तत्र स्तम्बेरमोऽपि सः । प्राप नागकुमारत्वं, कालमाहात्म्यमीदृशम् ॥१७॥
हाकारदण्डनीत्यैव, चक्षुष्मानथ युग्मिनाम् । मर्यादां वर्तयामास, यथा विमलवाहनः ॥१७॥ प्राप्ते च चरमे काले, चक्षुष्मच्चन्द्रकान्तयोः। यशस्वी च सुरूपा च, जज्ञाते युग्मरूपिणौ ॥१७२॥ तत्संहननसंस्थानवौँ न्यूनायुषौ मनाक् । कलयामासतुवृद्धिं, वयोबुद्धी इब क्रमात् ॥ १७३ ॥ सदा युग्मचरौ कान्ती, सप्तधन्वशतोच्छ्यौ । बिभराञ्चक्रतुद्वौ तौ, तोरणस्तम्भविभ्रमम् ॥ १७४॥ कालेन पञ्चतां प्राप्य, चक्षुष्मानुदपद्यत । सुपर्णेष्वथ नागेषु, चन्द्रकान्ताऽपि तत्क्षणम् ॥ १७५॥
ततो यशस्वी पिठ्वन्मिथुनान्यखिलान्यपि । सलील पालयामास, गोपाल इव गाश्चिरम् ।। १७६ ॥ अथोल्लचितुमारेभे, हाकारो मिथुनैः क्रमात् । स्फुरदन्तर्मदावस्थैरङ्कुशो वारणैरिव ॥ १७७ ॥ चक्के माकारदण्डं च, यशखी तानि शासितुम् । रोगे ह्येकौषधासाध्ये, देयमेवौषधान्तरम् ॥ १७८ ॥ आगखल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुनः । महीयसि द्वे अपि ते, स प्रायुत महामतिः ॥ १७९॥ १ चन्द्र। * सार्धसप्त खंता, आ॥
॥३८॥
Jain Education Interna
l
For Private & Personal use only
www.jainelibrary.org