________________
दीयतां मा दीयतां वेत्यामर्शविवशा इव । सविलम्ब भाजनानि, भृङ्गा अप्यर्थिता ददुः॥१५॥ आतोद्यादि न ताक्षं, ताङ्गा अप्यसूत्रयन् । तिरस्कारसमाकृष्टा, गन्धर्वा इव विष्टयः॥१५१ ॥ अर्थ्यमाना अपि मुहुर्दीपज्योतिष्कभृरुहः । नोझोतं तादृशं तेनुर्दिवा दीपशिखा इव ॥१५२ ॥ चित्राङ्गा अपि माल्यादि, द्रुतमिच्छानुसारतः । न हि विश्राणयामासुभृत्या दुर्विनया इव ॥ १५३॥ भोज्यं चतुर्विधं चित्ररसं चित्ररसा अपि । प्राग्वन्नादुः क्षीयमाणदानेच्छा इव सैत्रिणः ॥ १५४ ॥ भूषणाद्यर्पयामासुर्न मण्यङ्गास्तथाविधम् । सम्पत्स्यते कथं भूय, इति चिन्ताकुला इव ॥ १५५॥ गेहाकारास्तु गेहानि, मन्दं मन्दं वितेनिरे । सत्काव्यानीव कवयो, मन्दव्युत्पत्तिशक्तयः ॥१५६ ॥ अनग्ना अपि वस्त्राणि, स्खलितस्खलितं ददुः । क्रूरग्रहावग्रहिणो, वारि वारिधरा इव ॥ १५७ ॥ तादृक्कालानुभावेन, मिथुनानामजायत । ममत्वं कल्पवृक्षेषु, स्वदेहावयवेष्विव ॥ १५८ ॥ अन्येन स्वीकृतं कल्पवृक्षमन्यो यदाऽऽश्रयत् । महान् परिभवो ह्यासीत, तदा स्वीकृतपूर्विणः ॥१५९ ॥ तथापराभवं सोढुमसहास्ते परस्परम् । आत्माधिकं स्वामितया, चक्रुर्विमलवाहनम् ॥ १६० ॥ जातिस्मृत्या स नीतिज्ञो, युग्मिनां कल्पपादपान् । ददौ विभज्य स्थविरो, द्रविणं गोत्रिणामिव ।। १६१॥ यो यस्तत्याज मर्यादां, परकल्पद्रुमेच्छया । आविश्वकार हाकारनीति तद्दण्डनाय सः॥१६२॥ हा त्वया दुष्कृतमिति, तस्य दण्डेन युग्मिनः । वार्द्धिवेलाजलानीव, मर्यादां नातिचक्रमुः ॥ १६३ ॥ तेन हाकारदण्डेन, युग्मान्येवममंसत । वरं दण्डादिभिर्घातो, न हाकारतिरस्कृतिः॥ १६४ ॥ १ अरचयन् । २ ददुः । ३ दानशालाकारिणः । ४ शनिरविभौमादय अवृष्टिकारकाः ।
Jain Education Internat
For Private & Personal Use Only
www.jainelibrary.org.