SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते द्वितीयः सर्गः ऋषभचरितम् । ॥३७॥ पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्याः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्रयाः ॥ १३५ ॥ एकान्तदुःखप्रचिता, उत्सर्पिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि ॥ १३६ ॥ तृतीयारान्तजातत्वाद्, दैये नवधनुःशतौ । पल्यदशमांशायुष्कावभूतां तौ तु युग्मिनौ ॥ १३७ ॥ वज्रऋषभनाराचसन्धिबन्धं वपुस्तयोः । समेन चतुरस्रेण, संस्थानेन परिष्कृतम् ॥ १३८॥ युग्मधर्मी स शुशुभे, जात्यजाम्बूनदद्युतिः । प्रियङ्गवर्णया पन्या, सुमेरुरिख मेध्यया ॥१३९॥ तत्रैवाऽशोकदत्तोऽपि, प्राग्जन्मकृतमायया । श्वेतवर्णश्चतुर्दन्तः, सुरदन्तीव दन्त्यभूत् ॥ १४०॥ भ्राम्यतेतस्ततः खैरमन्येद्युस्तेन दन्तिना । स युग्मधर्मी पुरतः, प्राग्जन्मसुहृदैक्ष्यत ॥ १४१॥ तद्दर्शनामृतासारस्फारीभूततनोस्ततः । बीजस्येवाऽङ्कुरस्तस्य, स्नेहः समुदपद्यत ॥ १४२ ॥ हस्तिना तेन हस्तेनाऽऽदायाऽऽलिङ्गय यथासुखम् । अनिच्छन्नपि स स्कन्धप्रदेशमधिरोपितः ॥ १४३॥ अन्योऽन्यदर्शनाभ्यासाद् , द्वयोरपि तयोस्ततः । जज्ञे परुत्कृतस्येव, स्मरणं पूर्वजन्मनः ॥ १४४ ॥ चतुर्दन्तद्विपस्कन्धारूढं ददृशुरिन्द्रवत् । तमन्ये विस्मयोत्तानलोचना युग्मरूपिणः ॥ १४५ ॥ शङ्खकुन्देन्दुविमलं, गजमारूढ इत्यसौ । ततः प्रोच्यत मिथुनैर्नाम्ना विमलवाहनः॥१४६॥ जातिस्मृत्या स नीतिज्ञो, विमलद्विपवाहनः । प्रकृत्या रूपवांश्चेति, जज्ञे सर्वजनाधिकः ॥ १४७ ॥ कालेन गच्छता तत्र, प्रभावः कल्पभूरुहाम् । मन्दीबभूव चारित्रभ्रष्टानां यतिनामिव ॥ १४८ ॥ मद्याङ्गा विरसं मद्यमदुः स्तोकं विलम्बितम् । दुर्दैवेन परावृत्त्य समानीता इवाऽपरे ॥ १४९ ॥ १ सुवर्णकान्तिः । २ मेघमालया । कुलकराणामुत्पत्तिः। SISUSTASIASSOCESSORS Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy