SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कल्पवृक्षाः। अपक्रोधा गतमाना, निर्माया लोभवर्जिताः । सर्ववारं स्वभावेनाऽप्यधर्मपरिहारिणः ॥ १२० ॥ प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवानिशम् । मद्याङ्गाद्याः कल्पवृक्षा, दशोत्तरकुरुष्विव ॥१२१॥ स्वादुमद्यानि मद्याङ्गा, ददुः सद्योऽपि याचिताः। भाजनादीनि भृङ्गाश्च, तद्भाण्डागारिका इव ॥१२२॥ तेनुस्ताङ्गास्तूर्याणि, तूर्यत्रयकराणि तु । उयोतमसमं दीपशिखा ज्योतिषिका अपि ॥ १२३॥ विचित्राणि तु चित्राङ्गा, माल्यानि समढौकयन् । मंदा इव चित्ररसा, भोज्यानि विविधानि तु ॥१२४॥ यथेच्छमर्पयामासुर्मण्यङ्गा भूषणानि तु । गेहाकाराः सुगेहानि, गन्धर्वपुरवत् क्षणात ॥१२५॥ अभमेच्छमनग्नास्तु, वासांसि समपादयन् । एते प्रत्येकमन्यानप्यर्थान् ददुरनेकशः ॥ १२६ ॥ तदा च भूमयस्तत्र, स्वादवः शर्करा इव । सदा माधुर्यधुर्याणि, धुन्यादिषु पयांस्यपि ॥ १२७॥ अतिक्रामत्यरे तत्र, वायुःसंहननादिकम् । कल्पद्रुमप्रभावाश्च, न्यूनं न्यूनं शनैः शनैः ॥ १२८॥ द्वितीये त्वरके माः, पल्यद्वितयजीविनः । गव्यूतद्वितयोच्छ्रायास्तृतीयदिनभोजिनः ॥१२९ ॥ किश्चिन्यूनप्रभावाच, तत्र कल्पमहीरुहः । किश्चिन्माधुर्यतो हीना, आपो भूशर्करा अपि ॥ १३० ॥ असिन्नप्यरके कालात , पूर्वारक इवाऽखिलम् । न्यूनन्यूनतरं स्थौल्यं, स्तम्बेरमकरे यथा ॥ १३१॥ ___ अरके तु तृतीयस्मिन्नेकपल्यायुषो नराः। एकगव्यूतकोच्छ्राया, द्वितीयदिनभोजिनः ॥१३२ ॥ अस्मिन्नप्यरके प्राग्वत , कामति न्यूनमेव हि । वपुरायुमाधुर्य, कल्पद्रुमहिमाऽपि च ॥ १३३ ॥ पूर्वप्रभावरहिते, चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्याः ॥१३४ ॥ १ सर्वदा । २ रसवतीकारकाः । ३ नद्यादिषु । ४ हस्तिशुण्डायाम् । त्रिषष्टि. ७ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy