________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
ऋषभचरितम् ।
कुलकराणामुत्पत्तिः।
ततः प्रभृति निःस्नेहः, सागरः प्रियदर्शनाम् । सोद्वेगं धारयामास, रोगग्रस्तामिवाऽङ्गुलीम् ।। १०४॥ किन्तु तां वर्त्तयामासोपरोधात् प्राग्वदेव सः । वन्ध्याऽप्युन्मूल्यते नैव, लता या लालिता स्वयम् ॥१०५॥ मत्कृतो माऽनयोर्भेदोऽभूदिति प्रियदर्शना । नाऽशोकदत्तवृत्तान्तं, तं प्रियाय न्यवेदयत ॥१०६॥ कारागाराय संसारं, मन्यमानोऽथ सागरः। ऋद्धिं कृतार्थयामास, दीनादिषु नियोगतः॥१०७॥ कालेन पूरयित्वाऽऽयुः, सागरः प्रियदर्शना । अशोकदत्तश्च ययुः, कालधर्म त्रयोऽपि ते ॥१०८॥ ___ जम्बूद्वीपस्य भरतक्षेत्रदक्षिणखण्डके । गङ्गासिन्ध्वन्तरस्याऽन्तर्भागे मध्येऽवसर्पिणि ।। १०९॥ तृतीयारे पल्याष्टमांशशेषे युग्मरूपतः । ततः समुदपद्येतां, सागरप्रियदर्शने ॥११० ॥ [युग्मम् ] भारतेषु च वर्षेषु, पञ्चखैरवतेष्विव । द्वादशारं कालचक्रं, हेतुः कालव्यवस्थितेः॥१११॥ कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । अराः षडवसर्पिण्यां, एकान्तसुषमादयः॥ ११२ ॥ तत्रैकान्तः सुषमारश्चतस्रः कोटिकोटयः । सागराणां सुषमा तु, तिस्रस्तत्कोटिकोटयः ॥ ११३ ।। सुषमदुःषमा ते द्वे, दुःषमसुषमा पुनः । सैका सहस्रैर्वाणां, द्विचत्वारिंशतोनिता ॥ ११४ ॥ एकविंशतिरब्दानां, सहस्राणि तु दु:षमा । एकान्तदुःषमाऽपि स्यात् , तावद्वर्षप्रमाणिका ॥११५॥ अरका अवसर्पिण्यां, य एते समुदीरिताः । उत्सर्पिण्यां त एव स्युः, प्रतिलोमक्रमेण तु ॥ ११६ ॥ तदेवमवसर्पिण्यामुत्सर्पिण्यां च मीलिताः । सागरोपमकोटीनां, कोटयः खलु विंशतिः ॥ ११७ ॥ तत्राऽरे प्रथमे माः, पल्यत्रितयजीविनः । गव्यूतत्रितयोच्छ्रायाश्चतुर्थदिनभोजिनः ॥ ११८ ॥ चतुरस्रसुसंस्थानाः, सर्वलक्षणलक्षिताः । वज्रऋषभनाराचसंहननाः सदासुखाः ॥ ११९ ॥
Jain Education Internati
For Private & Personal use only
www.jainelibrary.org