SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विचिन्तिताया दुन्दुभ्याः, पतनेनेव तो ततः । मनीषितविवाहेन, मुमुदाते वधूवरौ ॥ ५९॥ समानमानसतया, तयोरेकात्मनोरिव । परस्परमवर्द्धिष्ट, प्रीतिः सारसयोरिख । ६०॥ रेजे सागरचन्द्रेण, सा चन्द्रेणेव चन्द्रिका । सहोदयवती सौम्यदर्शना प्रियदर्शना ॥ ६१॥ तयोः शीलभृतो रूपवतोराजवशालिनोः । अनुरूपोऽभवद् योगश्चिराद् घटयतो विधेः॥६२॥ अविस्रम्भो न जात्वासीदन्योऽन्यप्रत्ययात् तयोः। विपरीतं न शङ्कन्ते, कदापि सरलाशयाः॥६३ ॥ अथ सागरचन्द्रस्य, बहिर्गतवतो गृहे । अशोकदत्तोऽभ्यायासीदचे च प्रियदर्शनाम ॥ ६४॥ श्रेष्ठिनो धनदत्तस्य, वध्वा मन्त्रयते रहः । नित्यं सागरचन्द्रो यत् , तत्र किं स्यात् प्रयोजनम् ? ॥६५॥ निसर्गऋज्वी साऽप्यूचे, जानात्येतत् सुहृत् तव । द्वितीयं हृदयं तस्य, त्वं वा जानासि सर्वदा ॥६६॥ रहःसूत्रितकार्याणि, महतां व्यवसायिनाम् । को जानात्यथ जानाति, स कथं कथयेद् गृहे ? ॥ ६७॥ उवाचाऽशोकदत्तोऽपि, त्वत्पतेर्यत तया सह । मन्त्रे प्रयोजनं वेभि, तत् परं कथ्यते कथम् ॥ ६८॥ प्रियदर्शनया किं तदित्युक्तः सोऽब्रवीदिति । त्वया प्रयोजनं यन्मे, सुभ्रुः तस्यापि तत् तया॥६९॥ तद्भावाविज्ञया ऋज्वा, प्रियदर्शनया पुनः । मया प्रयोजनं ते किमित्युक्तः सोऽवदत् पुनः ॥ ७॥ पुंसो रसान्तरविदः, कस्य न स्यात् सचेतसः । त्वया प्रयोजनं सुभ्र, तमेकं त्वत्प्रियं विना ॥ ७१॥ आकर्ण्य कर्णसूच्याभ, दुरीहासचि तद्वचः। सकोपाधोमुखीभूय, सा साक्षेपमभाषत ॥ ७२ ॥ रे निर्मर्याद ! पुस्खेट, त्वयैतचिन्तितं कथम् । चिन्तितं वा कथं तूक्तं ?, धिक साहसमचेतसः॥७३॥ १ मनोऽभीष्टविवाहेन । २ अविश्वासः । ३ स्वभावसरला । ४ कर्णसूचीसदृशम् । ५ हे पुरुषाधम । Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy