SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व द्वितीय त्रिषष्टिशलाकापुरुषचरिते ॥३४॥ सर्गः ऋषभचरितम् । | कुलकराणामुत्पत्तिः। CAMERCAMERAMSAROSARMA भवत्वेवं तथाऽपीति, विमृश्य मनसि क्षणम् । ऊचे सागरचन्द्रोऽपि, ग्रंश्रयाश्रितया गिरा ।। ४५॥ यंदादिशति तातस्तत् , कर्तव्यं सूनुरस्मि ते । कृतं तेन कृतेनापि, गुर्वाज्ञा यत्र लक्ष्यते ॥ ४६॥ किन्तु दैवादकाण्डेऽपि, कृत्यं तदुपतिष्ठते । नाऽऽलोचकालहरणं, सहते यन्मनागपि ॥४७॥ आलोचं कुर्वतोऽत्येति, कालः कार्यस्य कस्यचित् । पर्ववेलेव ब्रिह्मस्य, पादशौचं वितन्वतः ॥४८॥ ईदृशेऽप्यागते काले, प्राप्तेऽपि प्राणसंशये । तदेवाऽहं करिष्यामि, तव लज्जाकरं न यत् ॥४९॥ तातेनाऽशोकदत्तस्य, यच्च तादृगुदीरितम् । तद्दोषेण न दोष्यस्मि, न गुणी तद्गुणेन वा ॥ ५० ॥ यन्ममाऽशोकदत्तेन, मैत्री तत्रेति कारणम् । सहवासः सहपांशुक्रीडनं दर्शनं मुहुः॥५१॥ समा जातिः समा विद्या, समं शीलं समं वयः । परोक्षेऽप्युपकारित्वं, सुखदुःखविभागिता ॥५२॥ अभिश्च कैतवमहं, न पश्यामि मनागपि । मृपा तातस्य कोऽप्याख्यत् , खलाः सर्वकषाः खलु ॥५३॥ अस्तु वा तादृशो मायाव्येष मे किं करिष्यति ? । एकत्र विनिवेशेऽपि, काचः काचो मणिर्मणिः ॥५४॥ इत्युक्तः सूनुना श्रेष्ठी, तमूचे बुद्धिमानसि । तथापि ह्यवधातव्यं, दुर्लक्षा हि पराशयाः ॥५५॥ सोऽथ स्वमूनो वज्ञस्तदर्थं प्रियदर्शनाम् । शीलादिभिर्गुणैः पूर्णा, पूर्णभद्रादयाचत ॥ ५६ ॥ असावुपकृतिक्रीती, त्वत्सुतेन सुता मम । अग्रेऽपीति वदन पूर्णभद्रोऽमन्यत तद्वचः ॥ ५७ ॥ ततः सागरचन्द्रस्य, प्रियदर्शनया सह । विवाहोऽकारि पितृभिः, शुभे लग्ने शुभे दिने ।। ५८॥ विनयाश्रितया। * अयं श्लोकः सं १ पुस्तके न दृश्यते ॥ २ विचारकालप्रतीक्षणम् । ३ गच्छति । ४ दीर्घसूत्रिणः ।। ५ सर्वक्षोभकारकाः। ६ उपकारकीता। ॥३४॥ Jan Education inte For Prate & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy