________________
इयमुद्भटताऽकारि, यत् तदा तन्न साम्प्रतम् । कार्य सपौरुषेणापि, वणिजा न हि पौरुषम् ॥३०॥ सङ्गः किञ्च ऋजोरस्याऽशोकदत्तेन मायिना । न साधुर्जातु बदरीद्रुणेव कदलीतरोः ॥३१॥ विचिन्त्येति चिरं श्रेष्ठी, स समाहूय सागरम् । भद्राद्विपं निषादीव, साम्नाऽऽरभत शासितुम् ॥३२॥
सर्वशास्त्रानुसारेण, व्यवहारेण च स्वयम् । वत्स! सम्यगभिज्ञोऽसि, तथापि ज्ञाप्यसे मया ॥३३॥ वयं हि वणिजस्तात!, कलाकौशलजीविनः । अनुद्भटाऽऽचारवेषाः, सन्तो गामहे न हि ॥ ३४ ॥ भवितव्यं यौवनेपि, भवद्भिर्गुढविक्रमैः । वणिजो लोकसामान्येऽप्यर्थे साशङ्कवृत्तयः ॥ ३५॥ सम्पदो विषयक्रीडा, दानं च च्छन्नमेव नः । अलं भवति शोभायै, शरीरमिव योषिताम् ॥ ३६॥ आत्मजातेरनुचितं, क्रियमाणं न शोभते । चरणे करमस्येव, बद्धं कनकनूपुरम् ॥ ३७॥ ततो निजक्रमौचित्यव्यवहारपरायणैः । दातव्यः प्रहरो वत्स !, गुणानां सम्पदामिव ॥ ३८॥ त्याज्योऽसतां च संसर्गो, निसर्गानृजुचेतसाम् । सोऽलेकविषवत् कालेनाऽपि यात्येव विक्रियाम् ॥३९॥ अयं चाऽशोकदत्तस्त्वां, मित्रं चित्रं तनूमिव । अवाप्तप्रसरो वत्स!, सर्वथा दृषयिष्यति ॥ ४०॥ मनस्यन्यद् वचस्यन्यत्, क्रियायामन्यदेव हि । गणिकाया इवाऽमुष्याऽत्यन्तमायाजुषः सदा ॥४१॥ आदरादुपदिश्यैवं, श्रेष्टिश्रेष्ठे स्थिते सति । इति सागरचन्द्रोऽपि, चिन्तयामास चेतसि ॥४२॥ कन्याबन्दिव्यतिकरस्तातेन सकलोपि सः। विज्ञात इति मन्येऽहमुपदेशदिशाऽनया ॥४३॥ असावशोकदत्तश्च, तातस्याऽभान्न सङ्गतः। मन्दभाग्यतया पुंसां, गुरवः स्युरनीदृशाः॥४४॥ १ सरलस्य । २ महामात्रः । ३ मृदुवचनेन । ४ उष्ट्रस्य । ५ हडक्कयितश्वविषवत् । ६ श्वेतकुष्ठम् ।
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org