SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभ(चरितम् । ॥३३॥ वसन्त इव मलयानिलेन श्रेष्टिनरपि । सुहृदाऽशोकदत्तेन, सहोद्यानं जगाम सः॥१५॥ -पुष्पावचयसन्दर्भगीतनृत्यादिभिस्ततः । प्रवृत्तः क्रीडितुं लोकः, स्थितः कामस्य शासने ॥१६॥ स्थाने स्थाने कृतास्थानाः, पौराः क्रीडाविधायिनः । आवासितस्मरनृपस्कन्धावारधुरां दधुः॥१७॥ पदे पदे सम्प्रवृत्तगीतातोद्यमहाध्वनौ । जयायाऽन्येन्द्रियार्थानामिवाऽभ्यधिकमुत्थिते ॥ १८॥ प्रत्यासन्नादथैकस्मादकस्मात् तरुगह्वरात । त्रायध्वं त्रायध्वमिति, त्रस्तस्त्रीध्वनिरुत्थितः ॥१९॥ तया समाकृष्ट इव, गिरा कर्णप्रविष्टया । किमेतदिति सम्भ्रान्तः, सागरः समधावत ॥२०॥ श्रेष्ठिनः पूर्णभद्रस्य, कन्यकां प्रियदर्शनाम् । स बन्दिमिळूतां तत्राऽपश्यदेणी वृक्केरिख ॥२१॥ एकस्य बन्दिनो हस्तमामोट्याऽथाऽऽददे क्षुरीम् । श्रेष्ठिसूनुर्विषभृतो, ग्रीवां भक्त्वा मणीमिव ॥ २२॥ तस्येति विक्रमं दृष्ट्वा, बन्दिनस्ते विदुद्रुवुः । व्याघ्रा अपि पलायन्ते, ज्वलज्ज्वलनदर्शनात् ॥ २३ ॥ इति सागरचन्द्रेण, बन्दिभ्यः प्रियदर्शना । एधोहारिभ्यो माकेन्दलतेव परिमोचिता ॥ २४ ॥ परोपकारव्यसनी, क एष पुरुषाग्रणीः । आगादिह समाकृष्टो, दिष्ट्या मद्भाग्यसम्पदा?॥२५॥ स्मररूपाधरीका, भर्त्ता भाव्ययमेव मे । चिन्तयन्तीति खं धाम, जगाम प्रियदर्शना ॥२६॥ अनुस्यूतामिव वहन् , हृदये प्रियदर्शनाम् । अशोकदत्तसहितः, श्रेष्ठिपुत्रोऽभ्यगाद् गृहम् ॥ २७॥ अथ चन्दनदासेन, स परम्परयाखिलः। अवावुध्यत वृत्तान्तः, केन छायेत तादृशम् ॥२८॥ स दध्याविति युक्तोऽस्य, रागोऽधिप्रियदर्शनम् । अजयं पङ्कजिन्या हि, राजहंसख युज्यते ॥ २९॥ । हरिणीम् । २ वनश्वानैः । ३ सर्पस्य । ४ काष्ठहारिभ्यः । ५ आम्रलतेव । ६ सङ्गतिः । |कुलकराणामत्पत्तिः। ॥३३॥ Jain Education International For Private & Personal use only HT w w.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy