________________
त्रिषष्टि
शलाकार पुरुषचरिते
तौ तु पीठ-महापीठौ, पर्यचिन्तयतामिति । उपकारकरो यो हि, स एवेह प्रशस्यते ॥ ९०७ ॥ आगमाध्ययनध्यानरतावनुपकारिणौ । को नौ प्रशंसत्वथवा, कार्यकाको जनः ॥९०८॥ ताभ्यामनालोचयद्भयामितीर्थ्याकृतदुष्कृतम् । मायामिथ्यात्वयुक्ताभ्यां, कर्म स्त्रीत्वफलं कृतम् ॥९०९॥ ते षडप्यनतीचारां, खड्गधारासहोदराम् । प्रव्रज्यां पालयामासुः, पूर्वलक्षांश्चतुर्दश ॥९१० ॥
संलेखनाद्वयपुरःसरमेकधीरास्ते पादपोपगमनानशनं प्रपद्य । सर्वार्थसिद्धिमधिगम्य दिवं त्रयस्त्रिंशाब्ध्यायुषः सुरवराः षडपि ह्यभूवन् ॥ ९११॥
SSES
प्रथमं पर्व
प्रथमः 1.सर्गः ऋषभचरितम् ।
॥३२॥
इत्याचार्यश्रीहेचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि
धनादिद्वादशभववर्णनो नाम प्रथमः सर्गः॥१॥
पूर्वभवचरिते द्वादशो देवभवः, प्रथमसर्गसमाप्तिश्च।
SESESEARCH
॥३२॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.