SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ tortortort शङ्कादिदोषरहितं, स्थैर्यादिगुणभूषितम् । शमादिलक्षणं सम्यग्दर्शनं नवमं पुनः॥८९१ ॥ ज्ञानदर्शनचारित्रोपचारैश्च चतुर्विधः। कर्मणां विनयनतो, विनयो दशमं पुनः॥ ८९२ ॥ इच्छामिथ्याकरणादियोगेष्वावश्यकेष्वलम् । अतीचारपरीहारो, यत्नादेकादशं तु तत् ॥ ८९३ ॥ अहिंसादिसमित्यादिमलोत्तरगुणेषु या । प्रवृत्तिनिरतीचारा, स्थानकं द्वादशं तु तत् ॥ ८९४ ॥ शुभध्यानस्य करणं,क्षणे क्षणे लवे लवे । प्रमादपरिहारेण, स्थानमेतत् त्रयोदशम् ।। ८९५ ॥ अनाबाधेन मनसो, वपुषश्च निरन्तरम् । यथाशक्ति तपःकर्म, स्थानमेतच्चतुर्दशम् ॥ ८९६॥ अन्नादीनां संविभागो, यथाशक्ति तपस्विषु । मनोवाकायशुद्ध्या यः, स्थानं पञ्चदशं हि तत् ॥ ८९७ ॥ आचार्यादीनां दशानां, भक्तपानाऽऽसनादिभिः । वैयावृत्यस्य करणं, स्थानकं षोडशं तु तत् ॥ ८९८ ॥ चतुर्विधस्य सङ्घस्य, सर्वापायनिषेधनात् । मनःसमाधिजननं, स्थानं सप्तदशं हि तत् ॥ ८९९ ॥ सूत्रस्यार्थस्योभयस्याऽप्यपूर्वस्य प्रयत्नतः । अन्वहं यदुपादानं, स्थानमष्टादशं तु तत् ॥९००॥ श्रद्धानेनोद्भासनेनाऽवर्णवादच्छिदादिना । श्रुतज्ञानस्य भक्तिस्तत् , स्थानमेकोनविंशकम् ॥ ९०१॥ विद्यानिमित्तकवितावादधर्मकथादिभिः । प्रभावना शासनस्य, तद् विंशतितमं पुनः ॥९०२॥ अप्येकं तीर्थकृनामकर्मणो बन्धकारणम् । मध्यादेभ्यः स भगवान् , सर्वैरपि बबन्ध तत् ॥ ९०३ ॥ बाहुनाऽपि च साधूनां, वैयावृत्यं वितन्वता । चक्रवर्तिभोगफलं, कर्मोपार्जितमात्मनः॥९०४॥ विश्रामणां महर्षीणां, कुर्वाणेन तपोजुषाम् । सुबाहुना बाहुबलं, लोकोत्तरमुपार्जितम् ॥ ९०५॥ अहो! धन्याविमौ वैयावृत्य-विश्रामणाकरौ । इति बाहु-सुबाहू तो, वज्रनाभस्तदाऽस्तवीत् ॥ ९०६॥ DSCASSESAMACRORESANG ort Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy