SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ३१ ॥ Jain Education Internation वलन्तो रुचकद्वी पादेकेनोत्पतनेन ते । नन्दीश्वरेऽलमायातुं द्वितीयेन यतो गताः ॥ ८७५ ॥ ते चोर्द्धगत्यामेकेन, समुत्पतनकर्मणा । उद्यानं पाण्डकं गन्तुमलं मेरुशिरः स्थितम् || ८७६ ॥ ततस्ते वलिता एकेनोत्पातेन तु नन्दनम् । अलं गन्तुं द्वितीयेन, प्रथमोत्पातभूमिकाम् ॥ ८७७ ॥ ते विद्याचारणर्थ्याऽऽघुमेकेनोत्पातकर्मणा । मानुषोत्तरमन्येन, द्वीपं नन्दीश्वरं क्षमाः ॥ ८७८ ॥ एकोत्पातात् ततश्रातुं, पूर्वोत्पातमहीतलम् । तिर्यग्यानक्रमेणोर्द्धमप्यलं ते गतागते ।। ८७९ ॥ आसीदाशीविषर्द्धिश्च निग्रहाऽनुग्रहक्षमा । तेषामन्या अप्यभूवन्, बहुलं बहुलब्धयः ॥ ८८० ॥ लब्धीनामुपयोगं ते, जगृहुर्न कदाचन । मुमुक्षवो निराकाङ्क्षा, वस्तुषूपस्थितेष्वपि ॥ ८८१ ॥ इतश्व तीर्थकुन्नामगोत्रकर्मार्जितं दृढम् । स्वामिना वज्रनाभेन, विंशत्या स्थानकैरिति ॥ ८८२ ॥ तत्रैकमर्हतामर्हत्प्रतिमानां च पूजया । अवर्णवादव्याषेघैः सद्भूतार्थस्तवैरपि ॥ ८८३ ॥ सिद्धानां सिद्धिस्थानेषु, प्रतिजागरणोत्सवैः । यथावस्थितसिद्धत्वकीर्त्तनाच्च द्वितीयकम् ॥ ८८४ ॥ बालक - ग्लान- शैक्षादियतीनां यस्त्वनुग्रहः । प्रवचनस्य वात्सल्यं, स्थानकं तत् तृतीयकम् ॥ ८८५ ॥ आहारौषधवस्त्रादिदानादञ्जलियोजनात् । गुरूणामतिवात्सल्यकरणं तु तुरीयकम् ॥ ८८६ ॥ विंशत्यब्दपर्यायाणां षष्टिवर्षायुषां तथा । समवायभृतां भक्तिः, स्थविराणां तु पञ्चमम् ॥ ८८७ ॥ अर्थव्यपेक्षया स्वस्माद्, बहुश्रुतभृतां सदा । अन्नवस्त्रादिदानेन, षष्ठं वात्सल्यनिर्मितिः ॥ ८८८ ॥ सुविकृष्टतपःकर्मनिर्माणानां तपखिनाम् । भक्तिविश्रामणादानैर्वात्सल्यमिति सप्तमम् ॥ ८८९ ॥ द्वादशाङ्गे श्रुते प्रश्नवाचनादिभिरन्वहम् । सूत्राऽर्थोभयगो ज्ञानोपयोगो यस्तदष्टमम् ।। ८९० ॥ For Private & Personal Use Only प्रथमं पच प्रथमः सगः ऋषभ चरितम् । पूर्वभवचरिते एकादशो वज्रनाभभवः । ॥ ३१ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy