SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तेषां वशित्वसामर्थ्य, तदपूर्वमजायत । भेजिरे वशितां येन, स्वतत्राः क्रूरजन्तवः ॥ ८५९॥ तेषामप्रतिघातित्वशक्तिः साऽभूद् यया खलु । अद्रिमध्येऽपि निःसङ्गं, गमनं रन्ध्रमध्यवत् ।। ८६०॥ तदन्त नसामर्थ्यमभूत् तेषामनाहतम् । नभस्वतामिवाऽदृश्यरूपता येन सर्वतः ॥ ८६१॥ प्रावीण्यं कामरूपित्वे, तत् तेषामुल्ललास च । अलं पूरयितुं लोकं, नानारूपैर्यथा निजैः ॥ ८६२॥ तेषामाविरभद् बीजबुद्धिता सातिशायिनी । एकार्थवीजतोऽनेकार्थबीजानां प्ररोहिणी ॥ ८६३ ॥ ते कोष्ठबुद्धयोऽभूवन , कोष्ठप्रक्षिप्तधान्यवत् । विना स्मरणमर्थानां, प्राक् श्रुतानां तथास्थितेः ॥ ८६४ ॥ आद्यादन्त्यान्मध्यमाद् वा, श्रुतादेकपदादपि । सर्वार्थग्रन्थबोधात् तेऽभूवन पदानुसारिणः ॥ ८६५ ॥ एकं वस्तु समुद्धृत्याऽन्तर्मुहूर्ताच्छूतोदधेः । अवगाहनसामर्थ्यात् , ते मनोबलिनोऽभवन् ॥ ८६६ ॥ अन्तर्मुहूर्त्तमात्रेण, मातृकामावलीलया । गुणयन्तः श्रुतं सर्वमासन् वाग्बलिनश्च ते ॥ ८६७ ॥ प्रपद्यमानाः प्रतिमां, चिरकालमपि स्थिराम् । श्रमक्लमाभ्यां रहितास्ते कायवलिनोऽभवन् ॥ ८६८ ॥ अभूवन्नमृतक्षीरमध्वाज्यास्रविणश्च ते । पात्रस्थस्य कदन्नस्याऽप्यमृतादिरसागमात् ॥ ८६९ ॥ दुःखादितेष्वमृतादिपरिणामाद् गिरां च ते । अमृतक्षीरमध्वाज्यास्रविणः साधु जज्ञिरे ॥ ८७०॥ अन्नस्य पात्रपतितस्याऽल्पस्याऽप्यतिदानतः । अक्षयेणाऽक्षीणमहानसर्द्धयश्च तेऽभवन् ॥ ८७१ ॥ तीर्थकृत्पर्षदीवाऽल्पदेशेऽपि प्राणिनां सुखम् । असङ्ख्यानां स्थितेरासंस्ते चाऽक्षीणमहालयाः॥८७२ ॥ एकेनाऽपीन्द्रियेणाऽन्येन्द्रियार्थस्योपलम्भनात् । ते बभूवुश्च सम्भिन्नस्रोतोलब्धिमहर्द्धयः॥ ८७३ ॥ जकाचारणलब्धिश्च, तेषामजनि सा यया । रुचकद्वीपमेकेनोत्पातेन प्राप्तमीश्वराः ॥ ८७४ ॥ त्रिषधि.६ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy