SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते प्रथमः सर्गः ॥३०॥ ऋषभचरितम् । तेषां योगप्रभावेण, सर्वाः खेलादिलब्धयः। औषध्य इव शैलानामाविरासन् शशित्विषा ॥८४३ ॥ तेषां श्लेष्मलवेनापि, संश्लिष्टं कुष्ठिनो वपुः । कोटिवेधरसेनेव, ताम्रराशिः सुवर्ण्यभूत् ॥ ८४४ ॥ कर्णनेत्रादिभूरङ्गभूश्च तेषामभून्मलः । कस्तूरिकापरिमलो, रोगनः सर्वरोगिणाम् ॥ ८४५॥ तेषां वपुःपरिस्पर्शमात्रादपि शरीरिणः । सरुजो नीरुजोऽभूवन् , सुधाम्भःस्नपनादिव ॥ ८४६ ॥ तदङ्गसङ्गादम्भोदमुक्तं नद्यादिवाह्यपि । सर्वरोगान् पयोहार्षीत् , तमांसीवाशुमन्महः ॥ ८४७ ॥ विषादिदोपाः प्राणश्यस्तदङ्गस्पर्शिवायुना । गन्धसिन्धुरदानाम्भोगन्धेनेवाऽन्यसिन्धुराः॥ ८४८॥ विषसम्पृक्तमन्नादि, तेषां पात्रे मुखेऽपि वा । सम्प्रविष्टं सुधाकुण्ड, इव निर्विषतामगात् ॥ ८४९ ॥ वचनश्रवणात तेषां, विषं मन्त्राक्षरादिव । बाधा महाविषव्याधिबाधितस्याऽप्यपासरत् ॥ ८५० ॥ नखाः केशा रदाश्चान्यदपि तेषां शरीरजम् । भेजे भेषजतां सर्व, मुक्तात्वं शुक्तिवारिवत् ।। ८५१॥ आसन्नणीयसीं मूर्ति, तथा ते कर्तृमीश्वराः । यथा सञ्चरितुमलं, सूचीरन्ध्रेऽपि तन्तुवत् ॥ ८५२ ॥ वपुर्महत्तरीकर्तुं, शक्तिस्तेषां बभूव सा । यया सुमेरुशैलोपि, जानुदनो व्यधीयत ॥ ८५३ ॥ तेषां वपुर्लघीयस्त्वसामर्थ्य तदजायत । समुल्ललचे तद् येन, मारुतस्यापि लाघवम् ॥ ८५४ ॥ वपुर्गरिमशक्तिश्च, वज्रादप्यतिशायिनी । साऽभूत् तेषां न या सह्या, शक्राद्यैत्रिदशैरपि ॥ ८५५ ॥ प्राप्तिशक्तिरभूत तेषां, भूस्थानां स्पर्शनं यया । अङ्गुल्यग्रेण मेर्वग्रग्रहादेवृक्षपत्रवत् ।। ८५६ ॥ साऽभूत् प्राकाम्यशक्तिश्च, भुवीवाऽप्सु यया गतिः । निमज्जनोन्मजने च, पानीय इव भुव्यपि ॥८५७॥ आसीत् तेषां तदैश्वर्य, प्रभवन्ति स येन ते । चक्रभृत्रिदशाधीशऋद्धिमाधातुमात्मनः ॥ ८५८ ॥ | पूर्वभवचरिते एकादशो बज्रनाभभवः। ॥३०॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy