SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका 'पुरुषचरिते ॥ २९ ॥ Jain Education International सोऽशेषं साधयामास, विजयं पुष्कलावतीम् । चक्रे च चक्रवर्त्तित्वाभिषेकोऽस्याऽखिलैर्नृपैः ।। ८१३ ॥ भुञ्जानस्याऽप्यस्य भोगान्, धर्मे धीरधिकाधिकम् । वयसो वर्द्धमानस्य, स्पर्द्धयेव व्यवर्द्धत ।। ८१४ ॥ क्रमादस्य प्रभवन्त्या, भववैराग्यसम्पदा । वंहिष्ठा धर्मधीरासीद्, वल्लीवाssवालवारिणा ।। ८१५ ।। एकदा विहरंस्तत्र, वज्रसेनजिनेश्वरः । परमानन्दजननः, साक्षान्मोक्ष इवाऽऽययौ ।। ८१६ ।। स्वामी समवसरणे, ततश्चैत्यतरोस्तले । कर्णामृतप्रपां धर्मदेशनामुपचक्रमे ।। ८१७ ॥ सबन्धुर्वज्रनाभोऽपि, जगद्बन्धोर्जिनप्रभोः । राजहंस इवाऽऽभ्यागादुपपादाम्बुजं मुदा ॥। ८१८ ।। स त्रिः प्रदक्षिणीकृत्य, प्रणम्य च जगत्पतिम् | अनुजन्मेव शक्रस्य, पृष्ठतः समुपाविशत् ।। ८१९ ॥ स बोधिमुक्ताजननीं भव्यमानसशुक्तिषु । देशनां खातिवृष्टयामां शुश्राव श्रावकाग्रणीः ।। ८२० ।। गिरं भगवतः शृण्वन् मृगो गीतिमिवोन्मनाः । हर्षाद् विचिन्तयामास स एवं भूमिवासवः ||८२१|| असावपारः संसारः, सरस्वानिव दुस्तरः । तस्याऽपि तारकस्तातो, दिष्ट्याऽसौ विष्टपाधिपः ।। ८२२ ।। अन्धकार इवाऽत्यन्तं, मोहोऽन्धङ्करणो नृणाम् । तस्याऽयमभितो भेत्ता, भगवान् भानुमानिव ।। ८२३ ।। चिरकालभवश्चाऽयं, महाव्याधिरिवोल्वणः । अचिकित्स्यः कर्मराशिस्तातस्तस्य चिकित्सकः ॥ ८२४ ॥ यद्वा किमन्यत् सर्वेषां दुःखानामेष नाशनः । सुखानामेकजननः, करुणामृतसागरः ।। ८२५ ।। खामिन्येवंविधेऽप्यस्मिन्नहो ! मोहप्रमद्वरैः । अस्माभिरात्मनैवाऽऽत्मा, वञ्चितोऽसौ कियच्चिरम् ॥८२६ || चक्रवर्त्ती ततो धर्मचक्रवर्त्तिनमानतः । इति विज्ञपयामास, भक्तिगद्गदया गिरा ।। ८२७ ॥ १ आलवालः । २ स्वाति नक्षत्रवृष्टितुल्याम् । ३ समुद्रः । For Private & Personal Use Only प्रथमं पर्व प्रथमः सर्गः ऋषभ चरितम् । पूर्वभवचरिते एकादशी वज्रनाभ भवः । ॥ २९ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy