SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ &% प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते % प्रथमः सर्गः ॥२६॥ ऋषभचरितम्। चतुर्थश्च समुत्पेदे, पन्यां श्रेष्ठिधनस्य तु । शीलमत्यां शीलपुञ्ज, इव नाम्ना गुणाकरः ॥ ७२४ ।। प्रयत्नाद् रक्ष्यमाणास्ते, बालधारैर्दिवानिशम् । समं ववृधिरे सर्वेऽप्यङ्गेऽङ्गावयवा इव ॥ ७२५ ॥ सहपांशुक्रीडिनस्ते, जगृहुः सममेव हि । कलाकलापं सकलं, मेघाम्भः पादपा इव ॥ ७२६ ॥ तत्रैव नगरे जीवः, श्रीमत्या अपि सोऽभवत् । सूनुरीश्वरदत्तस्य, श्रेष्ठिनः केशवाभिधः ॥ ७२७॥ समं च मिलितास्तेन, ते पमित्राणि जज्ञिरे । अवियुक्ताः करणान्तःकरणानीव सर्वदा ॥ ७२८ ॥ विदाञ्चकाराऽऽयुर्वेद, जीवानन्दोपि पैतृकम् । अष्टाङ्गमौषधीश्चाऽपि, रसवीर्यविपाकतः ॥ ७२९ ॥ ऐरावण इवेभेपु, ग्रहेष्विव दिवाकरः । अभूत् प्राज्ञो निरवद्यविद्यो वैद्येषु सोऽग्रणीः ।। ७३० ॥ सौदर्या इव सम्भूय, रममाणाः सदैव ते । कदाचित् कस्यचिद् वेश्मन्यन्योऽन्यस्याऽवतस्थिरे ॥ ७३१॥ एकदा वैद्यपुत्रस्य, जीवानन्दस्य मन्दिरे । एतेषां तिष्ठतामेकः, साधुर्भिक्षार्थमाययौ ॥ ७३२॥ पृथ्वीपालस्य राज्ञः स, सूनुर्नाम्ना गुणाकरः । राज्यं मलमिवोत्सृज्य, शमसाम्राज्यमाददे ॥ ७३३ ॥ सरिदोघ इव ग्रीष्मातपेन तपसा कृशः। कृमिकुष्ठाभिभूतश्च, सोऽकालापथ्यभोजनात् ॥ ७३४ ॥ सर्वाङ्गीणं कृमिकुष्ठाधिष्ठितोऽपि स भेषजम् । ययाचे न क्वचित् कायानपेक्षा हि मुमुक्षवः ।। ७३५॥ गोमत्रिकाविधानेन, गेहाद् गेहं परिभ्रमन् । षष्ठस्य पारणे दृष्टः, स तैर्निजगृहाङ्गणे ॥ ७३६ ॥ महीधरकुमारेण, स किश्चित् परिहासिना । जीवानन्दो निजगदे, जगदेकभिषक् ततः ॥ ७३७ ॥ अस्ति व्याधेः परिज्ञानं, ज्ञानमस्त्यौषधस्य च । चिकित्साकोशलं चाऽस्ति, नाऽस्ति वः केवलं कृपा ॥७३८॥ * सर्वेऽप्यनगाव सं1 करणानि इन्द्रियाणि, अन्तःकरणं मनः, एतान्यपि पट्सङ्ख्याकानि । २ गोमूत्रधारावरकरवेन । पूर्वभवचरिते नवमो जीवानन्दभवः। A A % ॥२६॥ % % Jain Education Intema For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy