SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ AUSSUROTOURURUSAUSSONS सदा संस्तुतमप्यारीमपि प्रार्थकमप्यहो!। वेश्या इव विना द्रव्यं, यूयं नाऽक्ष्णापि पश्यथ ॥ ७३९ ॥ तथाऽप्येकान्ततो नार्थलुब्धैर्भाव्यं विवेकिभिः । धर्ममप्युररीकृत्य, कृत्यं क्वाऽपि चिकित्सितम्॥७४०॥ चिकित्सायां निदाने च, धिक् ते सर्व परिश्रमम् । आयातमीदृशं पात्रं, सरोगं यदुपेक्षसे ॥ ७४१ ॥ जीवानन्दोऽपि विज्ञानरत्नरत्नाकरोऽब्रवीत् । साधु साधु महाभाग, त्वया विसापितोऽस्म्यहम् ॥७४२॥ ब्राह्मणजातिरद्विष्टो, वणिग्जातिरवश्चकः । प्रियजातिरनीालुः, शरीरी च निरामयः ॥ ७४३ ॥ विद्वान् धनी गुण्यगर्वः, स्वीजनश्चाऽपचापलः । राजपुत्रः सुचरित्रः, प्रायेण न हि दृश्यते ॥ ७४४॥ [सन्दानितकम् ] चिकित्सनीय एवाऽहो , महामुनिरयं मया । औषधानामसामग्री, किन्तु यात्यन्तरायताम् ॥ ७४५ ॥ तत्रैकं लक्षपार्क मे, तैलमस्तीह नास्ति तु । गोशीर्षचन्दनं रत्नकम्बलश्चाऽऽनयन्तु तत् ॥ ७४६ ॥ आनेष्यामो वयमिति, प्रोच्य पश्चापि तत्क्षणम् । ते ययुर्विपणिश्रेणी, स्वस्थानं सोऽप्यगान्मुनिः॥७४७॥ स्वकम्बल-गोशीर्षे, मूल्यमादाय यच्छ नः । इत्युक्तस्तैर्वणिग्वृद्धस्ते ददानोऽब्रवीदिदम् ॥ ७४८॥ दीनाराणां लक्षमेकं, प्रत्येकं मूल्यमेतयोः। गृहीत ब्रूत वस्तुभ्यां, किमाभ्यां वः प्रयोजनम् ? ॥७४९॥ तेऽप्यूचुर्मूल्यमादत्स्व, दत्स्व गोशीर्षकम्बलौ । एताभ्यां हि महासाधुचिकित्सा नः प्रयोजनम् ॥ ७५०॥ श्रुत्वा तद्वचनं श्रेष्ठी, विस्मयोत्तानलोचनः । रोमाञ्चसूचितानन्दश्चेतसैवमचिन्तयत् ॥ ७५१ ॥ क्वैषां यौवनमुन्मादप्रमादमदनोन्मदम् ? । मतिविवेकवसतिर्वयोवृद्धोचिता क्व च?॥ ७५२ ॥ १ परिचितम् । २ विघ्नस्त्वम् । Jan Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy