SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व विषष्टिशलाकापुरुषचरिते ॥२५॥ अथ पुष्कलपालस्य, व्यभिद्यन्त महारुषः । समन्तात् सीमसामन्ताः, सर्पभारोपमाजुषः ॥ ६९३ ॥ तेन तेषां द्विजिह्वानामिव साधनहेतवे । नरेन्द्रो वज्रजोऽथ, समाहूतोऽचलद् बली ॥ ६९४ ॥ प्रथमः श्रीमत्यपि समं वज्रजङ्घन जगतीभुजा । अचालीदचला भक्तिः, पौलोमीव बिडौजसा ॥ ६९५ ॥ सर्गः स गच्छन्न मार्गेऽथ, महाशरवणं पुरः । ददर्श दर्शयामिन्यामपि ज्योत्स्नाभ्रमप्रदम् ॥ ६९६ ॥ ऋषभदृग्विषोऽहिरिहाऽस्तीति, विज्ञप्तः सोऽध्वगैरगात् । पथाऽन्येन नयज्ञा हि, प्रस्तुतार्थेषु तत्पराः॥ ६९७॥8 चरितम् । आययौ पुण्डरीकिण्यां, पुण्डरीकोपमोऽथ सः । सामन्तमण्डलं सर्व, वशेऽभूत् पुष्कलस्य च ॥६९८॥ राजा पुष्कलपालोपि, पुष्कलानि विधेयवित् । विविधानि व्यधादस्य, स्वागतानि गुरोरिव ॥ ६९९॥ | पूर्वभवचरिते श्रीमन्तं श्रीमतीवन्धुमनुज्ञाप्याऽन्यदा तु सः । श्रीमत्या सहितोऽचालीच्छ्रियः पतिरिव श्रिया ॥७००॥ षष्ठो वज्रसोऽथ प्राप्तः शरवणं, निकषा कपणो द्विपाम् । इत्यूचे कुशलैर्यात, मध्येनाऽप्यस्य सम्प्रति ॥ ७०१॥ जभवः । उत्पेदे केवलज्ञानं, द्वयोरत्राऽनगारयोः । तत्र देवागमोझोताद् , दृग्विषो निर्विषोऽभवत् ॥ ७०२॥ नाम्ना सागरसेनश्च, मुनिसेनश्च तो मुनी । राजन्नत्रैव विद्यते, सूर्याचन्द्रमसाविव ॥ ७०३ ॥ सोदयों तो मुनी ज्ञात्वा, विशेषमुदितो नृपः । उवास तत्रैव वने, वनमालीव वारिधौ ॥ ७०४ ॥ कुर्वाणो देशनां तत्र, तौ वृत्तौ देवपर्षदा । भक्तिभारादिवाऽऽनम्रः, सभार्यः सोऽभ्यवन्दत ॥७०५॥ देशनान्ते च पानानवस्त्रोपकरणादिभिः । तो प्रत्यलाभयद् राजा, चिन्तयामास चेति सः॥७०६॥ ॥२५॥ धन्यावेतौ निष्कपायौ, निर्ममौ निष्परिग्रहौ । सोदर्यभावे सामान्येऽप्यहो! नाऽस्म्यहमीदृशः॥ ७०७ ॥ १ अन्तर्भेदं प्राप्ताः । २ इन्द्राणी । ३ समीपे । ४ संहारकः । ५ सहोदरौ । ६ विष्णुरिव । * चेतसि सं १, २ ॥ Jain Education Internatio For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy