________________
आत्मसन्दर्शनायाऽस्या, आगतोऽहमिहामि च । मयि रक्ता मृता जज्ञे, नॅनमेषा स्वयम्प्रभा॥६७८ ॥ इह नन्दीश्वरे जैनबिम्बार्चनपरोऽस्म्यहम् । गच्छन्नितोऽन्यतीर्थेषु, च्यवमानोऽहमस्म्यहम् ॥ ६७९ ॥ इह चैकाकिनी दीना, वराकीयं स्वयम्प्रभा । इह च च्यवमानेयं, मन्ये सैव मम प्रिया ॥ ६८०॥ साऽस्तीह मन्ये लिखितं, जातिस्मृत्या तया त्वदः। अन्यानुभूतं न ह्यन्यो, जनो जानाति जातुचित ॥६८१॥ आमेति पण्डिताऽप्युक्त्वा, श्रीमत्याः पार्श्वमेत्य च । तत्सर्वमाख्यत् हृदयविशल्यकरणौषधम् ॥ ६८२॥ श्रीमती दयितोदन्तगिरा रोमाञ्चिताऽभवत् । अम्भोदध्वनिना रत्नाकरितेव विदूरभूः ॥ ६८३ ॥ पितुर्व्यज्ञपयत् तच्च, श्रीमती पण्डितामुखात् । अस्वातव्यं कुलस्त्रीणां, धर्मो नैसर्गिको यतः॥ ६८४॥ तद्गिरा मुदितः सद्यः, स्तनितेनेव बहिणः । वज्रसेननृपो वज्रजङ्घमाजूहवत् ततः ॥ ६८५ ॥ कुमारमूचे भूपालोऽस्मत्पुत्री श्रीमतीत्यसौ । भवत्विदानी भवतो, गृहिणी पूर्वजन्मवत् ॥ ६८६ ॥ । तथेति प्रतिपन्ने च, कुमारेणोदवाहयत् । श्रीमती भूपतिः प्रीतो, हरिणेबोदधिः श्रियम् ॥ ६८७॥ ज्योत्स्त्रीचन्द्राविव युती, तौ सितक्षौमवाससौ । लोहार्गलपुरं राज्ञाऽनुज्ञातौ जग्मतुस्ततः ॥ ६८८ ॥ योग्यं ज्ञात्वा वज्रजङ्ख, स्वर्णजनोऽथ भूपतिः । राज्ये निवेशयामास, स्वयं दीक्षामुपाददे ॥ ६८९ ।। सूनोः पुष्कलपालस्य, दत्त्वा राज्यश्रियं निजाम् । प्राब्राजीद् वज्रसेनोऽपि, जज्ञे तीर्थकरश्च सः॥६९०॥ विलसन् वज्रजङ्घोऽपि, श्रीमत्या सह कान्तया । उवाह लीलया राज्यमम्भोजमिव कुञ्जरः॥ ६९१ ॥ अप्राप्तयोर्विप्रयोगं, गङ्गासागरयोरिख । तयोर्भुञ्जानयो गान्, सुतः समुदपद्यत ॥ ६९२ ॥ *पुनरेषा व सा, सं॥ मस्म्ययम् ता. दखनिमा र खं॥ ज्योत्स्नाच संता ॥
त्रिषष्टि. ५
Jain Education International
For Private & Personal use only
www.jainelibrary.org