________________
त्रिपष्टिशलाकापुरुषचरिते
प्रथमं पत्र प्रथमः सर्गः ऋषभचरितम् ।
॥२४॥
भूयोऽपि पृष्टः को नाम, नृपोऽयं मत्रिभिर्वृतः।।तपस्विनी च का न्वेषेत्याख्यदाख्यां न वेद्यहम्॥६६२॥ मायावीति च संज्ञातः, सोपहासं तयोदितः । पुत्रेदं संवदत्येव, प्राग्जन्मचरितं तव ॥ ६६३॥ _ ललिताङ्गोऽसि देवस्त्वं त्वत्पत्नी तु खयम्प्रभा ।नन्दिग्रामे कर्मदोषात् ,पङ्गभूताऽस्ति सम्प्रति।।६६४॥ सञ्जातजातिस्मरणादालिख्य चरितं निजम् । पटो मे धातकीखण्डगताया अर्पितस्तया ॥ ६६५॥ तस्याः पङ्ग्वाः करुणया, त्वं मयाऽसि गवेपितः । तदेहि धातकीखण्डे, त्वां नयामि तदन्तिके॥६६६।। वराकी त्वद्वियोगे सा, दुःखं जीवति पुत्रक!। समाश्वासय तामद्य, प्राग्जन्मप्राणवल्लभाम् ।। ६६७ ॥ एवमुक्त्वा पण्डितायां, तूष्णीकायां स मायिकः । इत्थं वयस्यैः स्वैरेव, सोपहासमभाष्यत ॥ ६६८ ॥ कलत्ररत्नाधिगमादहो ! पुण्योदयस्तव । अभिगम्या च पोप्या च, सा पङ्गः सर्वथा तव ॥ ६६९॥ ततो वैलक्ष्यदीनास्यः, स दुर्दान्तः कुमारकः । विक्रीयमाणेभ्य इवाऽवशिष्टः क्वचिदप्यगात् ॥ ६७० ॥
लोहार्गलपुराद् वज्रजङ्घोऽपि हि तदाऽऽययौ । चरितं चित्रलिखितं, तद् ददर्श मुमूर्छ च॥६७१।। व्यजन-जितो नीररुक्षितोऽथ स उत्थितः । जातजातिस्मृतिरभूत , सद्यः स्वर्गादिवागतः ॥ ६७२॥ पटालेख्यमिदं दृष्ट्वा, किं कुमाराऽसि मूच्छितः? । इति पण्डितया पृष्टो, वज्रजङ्घोऽब्रवीदिदम्।।६७३|| चरित्रं सकलत्रस्य, मम प्राग्भवसम्भवम् । इदं हि लिखितं भद्रे !, तद् दृष्ट्वा मृच्छितोऽस्म्यहम् ॥ ६७४॥ श्रीमानशानकल्पोऽयं, विमानं श्रीप्रभंत्विदम् । एपोऽहं ललिताङ्गाख्यः, प्रिया मेऽसौ स्वयम्प्रभा६७५ IG इतश्च धातकीखण्डे, नन्दीग्रामस्य मध्यतः । गृहे महादरिद्रस्य, सुता निर्नामिकेत्यसौ ॥ ६७६ ॥ शैलमम्बरतिलकमध्यारूढास्ति सा त्विह । गृहीतानशनाऽमुष्य, युगन्धरमुनेः पुरः॥ ६७७ ।।
पूर्वभवचरिते षष्टो बनजनवः।
॥२४॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org